________________
५६८
सारस्वते तृतीयवृत्ती आहतः किश्चि भूते । आकारान्ताहकारान्ताद्धातोर्जनिनमिगमिभ्यश्च शीलेऽर्थ भूतकाले कि प्रत्ययो भवति णबादिवद्धातोश्च द्विवचनं भवति । आतोऽनपि।
रामः सोमं पपिर्यज्ञे ददिर्गाश्चकिरद्भुतम् ॥ याजकान् वत्रिराजहिः पौण्डरीके महाद्विजान् ॥ १॥ तदा जज्ञिर्महाश्चर्य नेमिनूपगणोऽपि तम् ॥ ब्राह्मणानां श्रुतिविदां गणो जग्मिर्धनं मुदा ॥२॥ ॥ इति श्रीकृदन्तप्रक्रियायां शीलार्थप्रक्रिया ॥ . आहतः किर्द्धिश्च भूते । आञ्च ऋच्च आदृत् (पं० ए० ) स्वर० स्रो० कि (म० ए०) स्रो० द्विः द्वित्रिभ्यांसुः (म० ए०) अव्य० च (प्र० ए०) अव्य० भूत (स० ए०) अइए-आकारांतादयः प्रकारांताः डुकृञ् करणे हृहवरवणे वृऋणे इत्या. दयस्तेभ्यो धातुभ्यः शीले स्वभावेऽर्थे अतीते काले कीप्रत्ययो भवति ककारो गुणनिषेधार्थः। तत्सन्नियोगे धातो द्विवचनं । पा पाने पा किम० इद्वित्वं पूर्वस्य हस्खः आतोऽनपीत्याकारलोपः स्वर० (म० ए०) स्रो० पपिः । एवं दादाने ददिड. कृञ् करणे कृकिप० इद्विश्वरा इति पूर्वकारस्य अकारः कुहोःशुः परं स्वर० (प० ए०) स्रो० चक्रिः एवं वृकरणे वत्रिः हृञ् हरणे ह० आइपूर्वः किम इ द्वित्वं ः कुहोश्रुःजस्य झपानां जबचपाः झस्य जारं स्वर०(म०ए०) स्त्रो० आजहिः श्लोकश्वान । रामः सोमं पपिः यज्ञे व्याख्या० रामः पौंडरीके नान्नि यज्ञे सोमं अमृतं पपिः पीतवान् पपौ इत्येवं शीलो पपिः पुनः धेनूः ददिः दत्तवान् पुनः अद्भुतं आश्चर्य चकिः कृतवान् पुनः याजकान् यज्ञकर्तृन् वत्रिः ववार इत्येवं शिलो वत्रिः । पुनः महाद्विजान् ब्राह्मणान् भाजहिः आहूतवान् आजहार इत्येवं शील इत्यर्थः । इति श्लोक ध्याख्या। चकारादुपधालोपानामपि किः प्रत्ययः। गम् जग्मिः हन जनिः ज्ञा जज्ञिः। सहिवहिचलिपतिभ्यो यतेभ्यः किः। सासहिः, वावहिः, चाचलिः, पापतिः, इत्यादि। इति शीलार्थप्रक्रिया।
अथोणादयो निरूप्यन्ते ॥ सदोणादयः । सर्वस्मिन्काले उणादयः प्रत्यया भवन्ति । कुवा पा जिमि स्वदि साधि अशूङ् एभ्य उण् प्रत्ययो भवति । णकारो वृद्धयर्थः । करोतीति कारुः कारकः । वा