SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ सारस्वते तृतीयवृत्ती मतीति वामनः । कामतीति क्रमणः । वासू शब्दे । वासयतीति वासनः। मिता हस्वः।मदि हर्षे । मायतीति मदनः। दुष वैकृत्ये दुषेनी कति च दी| वक्तव्यः। दूषयतीतिदूषणः। राध् साध संसिद्धौ । राध्यतीति वा राधयतीति राधनः, साधनः। वृधु वृद्धौ । वर्धयतीति वर्धनः। रु शन्दे । रोर्युण् । रु शब्द इत्येतस्माद्धातोर्युच प्रत्ययो भवति । रौति वा रावयतीति रावणः। रुशब्दात् युरपि वक्तव्यः । तेन रवणः। अकारान्ताच्च । युण्प्रत्ययो भवति। करोतीति वा कारयतीति कारणः, कारकः । शुभ शोभने रोचने च । शोभयतीति शोभनः । रुचू दीप्तौ । रोचयतीति रोचनः। विभीषयतीति विभीषणः। णश् अदर्शने । चित्रं विनाशयतीति चित्तविनाशनः । युध्यते इति योधनः । एते ज्यन्ताः । सहतेऽसौ सहनः । तपतीति तपनः । ज्वल दीप्तौ । ज्वलतीति ज्वलनः। शम दम् उपशमे । शाम्यतीति शमनः । दाम्यतीति दमनः । जल्पतीति जल्पनः । तृप् प्रीणने । तृप्यतीति तर्पणः । रमणः । हप् संदर्प । हप्यतीति दर्पणः । क्रन्द आक्रन्दने । ऋदि आह्वाने रोदने च । संपूर्वः । संक्रन्दति वा संक्रन्दयतीति संक्रन्दनः । कू निष्कर्षे । कृष् आमर्षणे । संकर्षतीति संकर्षणः । अर्द मर्द अर्दने । अर्द गतौ याचने च । जनान् अर्दयतीति जनार्दनः । मर्दयतीति मर्दनः । घृष् संघर्षणे । संघर्षतीति संघर्षणः । पुनातीति पवनः । पवतेऽसौ पवनः । पूद क्षरणे । पूद निबर्हणे । सूदी हिंसायाम् । मधु सूदयतीति मधुसूदनः । लुनातीति लवणः । अत्र णत्वं निपात्यते । शत्रून दाम्यतीति वा दामयतीति शत्रुदमनः । इति नन्यादिः।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy