________________
५२८
साररवते तृतीयवृत्ती
सुरः । शुभ् शोभायाम् । शोभते तत् शुभं कल्याणम् ।
नाम्युपधात्कः । नामी उपधा यस्य सनाम्युपधस्तस्मात् ( पं० ए० ) ङसिरत् । सवर्णे ० क ( प्र० ए० ) स्रो० नामी अवर्णवर्जाः । स्वर० इकारादिः स उपधायस्य तस्माद्धातोः कप्रत्ययो भवति ककारो गुणप्रतिपेधार्थः । क्षिप् प्रेरणे क्षिप् अत्र नाम्युपधात् कप्रत्ययः । स्वर० स्रो० क्षिपः क्षिपते प्रेरयतीति क्षिपः । एवं भिदिर् विदारणे मिनतीति भिदः छिदिर द्वैधीकरणे छिन्नचीति छिदः । जानातेश्च । जानातेर्धातोरपि कः प्रत्ययो भवति । जानाश्वेति चकारात्कृगृधुमी ब्रुवामपि कः प्रत्ययो भवति । कॄ विक्षेपे ।
जानातेश्वेति ज्ञा भववोधने इत्येतस्यापि धातोः कप्रत्ययो भवति ज्ञा अकित्त्वा - दातोऽनपीत्याकारलोपः । स्वर० ( प्र० ए० ) स्रो० ज्ञः जानातीति ज्ञः । चकारात्कृत् प्रत्ययोरsपि कप्रत्ययः फिर ।
ऋत इत् । दीर्घऋकारान्तस्येर् नाम्यस्य । किरतीति किरः । धृञ् धारणे । धरतीति घ्रः । प्रीञ् तर्पणे । प्रीणाति वा प्रीणीतेऽसौ प्रियः । नु धातोः । गृ निगरणे । गिरतीति गिरः । स्वरे परे गिरस्य लत्वं वा वाच्यम् । गिले परे ऽ गिलस्य । गिलशब्दं विहाय पूर्वस्य सुम् वक्तः । तिमिं गिलतीति तिमिंगिलः । अगिलस्येति किं । गिलगिलः । ब्रूञ् व्यक्तायां वाचि । नु धातोः । व्रवीतीति ब्रुवः । अपिशब्दात्कर्तरि हेरपि कः प्रत्ययो भवति । गृह्णातीति गृहम् । तात्स्थ्यात् गृह्णन्ति ते गृहा दाराः । ऋतइर् । प्रियः मीञ् कम० नुधातोरिति इय् । सूत्रम् । पचिनन्दिग्रहादेरयुणिनि । पचादेर्नन्दादेग्रहादेश्व अयुणि नि इत्येते प्रत्यया भवन्ति यथासंख्येन । पचतीति पचः । वक्तीति वचः । वेतीति वेदः । वपतीति वपः । चरिचलिपतिहनिवदीनां वा द्वित्वं पूर्वस्यागागमश्च अप्रत्यये परे । हसाविशेपाभावः । चर गतिभक्षणयोः । चरतीति चरा