________________
५२४
सारस्वते तृतीयवृत्ती प्रत्यया येषां ते कृदन्ताः शब्दास्तेषां प्रक्रिया निरूप्यते । द्वितीयवृत्तौ धातवः साधितास्ते भवन्त्याचन्ताः अत्र तु भ्वादीनां कृत्मत्यययोगेन निष्पन्नाः स्याद्यन्ताः शब्दाः साध्यन्ते तत्र चेदमादिसूत्रम् ।
कृत्कर्तरि च । वक्ष्यमाणाः प्रत्ययाः कृत्संज्ञकास्ते च कर्तरि च भवन्ति । चकारागावकर्मणोरपि । स्वतन्त्रः कर्ता । क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता स्यात् । शुद्धो धात्वर्थों भावः कर्तुरीप्सिततमं कर्म । कर्तुः क्रियया आप्तुमिष्टतमं कारकं कर्मसंज्ञं स्यात् । तथायुक्तं चानीप्सितम्। ईप्सिततमवदनीप्सितमपि कारकं कर्मसंज्ञ स्यात् । विषं भुते देवदत्तः । अन्नं भुङ्क्ते देवदत्तः।
कृत् कर्तरि । कृत् (म० ए० ) हसे पः। कर्तृ ( स० ए०) करोतीति कर्ता तस्मिन् छौ इति र स्वर । अत्र ये प्रत्यया वक्ष्यन्ते ते कृतसंज्ञकाः कृत्रामानो ज्ञेयाः। अत्र जातावेकवचनमिति वचनाद्वक्ष्यमाण इति कथितं स च कृत्प्रत्ययः प्रायः कर्तरि कर्नुकावेव भवति चकारात् विशेषविधाने भावकर्मणोरपि । सूत्रम् ।
तृवुणौ । धातोस्तृवुणौ प्रत्ययौ भवतः । डुपच पाके । पच् तृ इति स्थिते । चोः कु: । पक् तु इति स्थिते । कृत्तद्वितसमासाश्च । प्रातिपदिकसंज्ञा इति केचित् । इति नामत्वम् । नामसंज्ञायां स्यादिविभक्तिर्भवति । स्तुराइ । सेरा । पचतीति पक्का पक्तारौ पक्तारः । पक्तारम् । पुलिस पक्ता । ष्ठितः। स्त्रियां पक्री । नपुंसके पक्त पक्तणी पक्तृणि इत्यादि । डुकृञ् करणे । करोतीति कर्ता । हृञ् हरणे। हरतीति हर्ता । मृङ् प्राणत्यागे। म्रियते इति मत । डुभन्न धारणपोषणयोः । बिभर्तीति भर्ता ।
तबुणौ । वृश्च तुण्च तृणौ ( म० द्वि०) स्वर० । धानोरये तृवुणी इत्येतो द्वौ प्रत्ययौ भवतः कर्तरि वुण् इत्यत्र णकारो वृद्धयर्थः । उदाहरणम् । टुपचए पाके पच् तृपत्ययः । चोः कुः स्वर० पक्त इति जातं कृत्तद्धितसमासाश्चेति नामसंज्ञापां । (म० ए०) स्तुरार यहादेशस्तबद्भवति इति न्यायात् । सेरा सच डित