________________
अथकदन्तप्रक्रिया। स्मृत्यर्थधातुयोगे । स्मृत्यर्थधातुपोगे सति भूतेऽपि लट्लकारो भवति । स्मरसि मित्र यदुपकरिष्यसि उपकुरुथाः । इति लकारार्थमक्रिया समाप्ता ।
धातूनामप्यंनन्तखानानार्थखाच सर्वथा ॥ अभिधातुमशक्यखादाख्यातख्यापनरलम् ॥ इति श्री अनुभूतिस्वरूपाचार्यविरचितायां सार
स्वतीप्रक्रियायामाख्यातप्रक्रिया समाप्ता ॥ अथ आख्यातोपसंहारमाह धातूनामिति । यतो धातवोऽनता यद्यपि कविकल्पद्रुमादौ चतुःपंचाशदधिकसप्तदशशतानि (१७५४) धातुसंख्या प्रतिपादिवा । तथापि प्रयोगाणां बहुत्वदर्शनाव धातवोऽनंता एव । तथा एकैकस्य धातोः अनेकेाः । यथा विद् क्रीडाविजीगीषाव्यवहारद्युतिस्तुतिमदमोदस्वमकांतिगतिषु । इत्यादि । एवमेकैको धातुरनेकेष्वर्थेषु वर्चते । तथा ये गत्यर्थास्ते ज्ञानार्या प्राध्याश्च इत्यनेकार्थत्वं । तथा उपसर्गयोगादप्यनेकार्थत्वं तत उक्तधातूनामनंतत्वात नास्ति अंतो येषां तेऽनवास्तेषां भावोऽनंतत्वं तस्मात् अनंतत्वात् । तथा प्रत्येकं धातूनां नानार्थत्वात नानाबहुभकारेण अर्थो येषां ते नानास्तेिषां भावो नानार्थत्वं तस्माचकारात्सर्वथा सर्वप्रकारेण संपूर्णतयाभिधानं कथनं शब्दशास्त्र अभिधातुं वक्तुं कथयितुं वा अशक्या यदि बृहस्पविः स्वयं वक्ता । इंद्रः स्वयं श्रोता तथापि वर्षसहस्रेणापि घातूनामंतं न गच्छति। लो. काच्छेषस्य सिद्धिरिति सवैयाकरणैरुकत्वात् तेषां प्रक्रियाप्रयोगानुसारेण प्रकारांतरेण वा ज्ञातव्या मया वक्तुं न शक्यते इति कारणात् । भारुपातस्प व्याकरणनवमाधिकारस्थ ख्यापनैः कथनैरलं पर्यापूर्यतामिति यावत् ।
॥ श्रीगणेशायनमः॥
____ckseckनिजजनैर्विधिना निखिलापदो झटिति यो । विनिवर्तयति स्मृतः ॥ जलविजापरिरम्भणला
लसो नरहरिः कुरुतां जगतां शिवम् ॥१॥ अथ कृदन्तप्रक्रिया निरूप्यते ॥ अथेत्याख्यातकथनानन्तरं कृत्मत्यया निरूप्यन्ते । तृतीयवृत्तिस्थप्रत्ययाना 'कृत्' इति संज्ञास्ति ते निरूप्यन्ते प्रकाश्यते । यद्वा कृदन्तक्रिया निरूप्यते । कृत्संज्ञकाः