SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ ५२२ सारस्वते द्वितीयवृत्तिः। अथ लकारार्थप्रक्रिया कथ्यते । सूत्रम् । हठपौनःपून्ययोलोण्मध्यमपुरुषैकवचनान्तता निपात्यते स. वकाले सर्वपुरुषविषये अतीते काले। पूरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः ॥ विगृह्य चक्रे नमुचिहिषा वशी 'यं इत्थमस्वास्थ्यमहर्निशं दिवः ॥ हठपौनःपुन्ययोः । हात्कारेऽर्थे । पौनःपुन्यार्थे च धातोर्लोणमध्यमपुरषस्य एकवचनं ततो हिः निपात्यते । सर्वकाले । सर्वपुरुषविषये । अतीते काले । अस्पोदाहरणानि । पुरीमवस्कंद अस्मिन् श्लोके उक्तानि ज्ञेयानि । वत्र परोक्षे काले लोण्मध्यमपुरुषस्यैकवचनान्तानि रूपाणि पश्यन्ते । श्लोकार्थः सुगमोऽस्ति । सूत्रम्। वर्तमानार्थाया अपि विभक्तेः स्मयोगे भूतार्थता वक्तव्या। आह स्म हारीतः । यजति स्म युधिष्ठिरः। वर्तमानार्थायाः । वर्तमानार्थाया अपित्यादिविभक्तेः स्मइत्यस्य योगे भूतार्थता वक्तव्या । अस्योदाहरणम्। आह स्म हारीतः । अत्र वर्तमानेऽपि स्मयोगेन भूतार्थता । द्वितीयमुदाहरणम् । यजति स्म युधिष्ठिरः । अत्रापि वर्चमाने स्मयोगेन भूतार्थता भवति । सूत्रम् । वैचित्यापह्नवयोरल्पकालेऽपि णादिवक्तव्यः । सुप्तोऽहं किल विललाप । नाहं कलिङ्गं जगाम । वैचित्यापहवयोः । वैचित्यापह्नवयोरल्पकालेऽपि णादिर्वक्तव्यः । अस्योदाहरणम् । वैचित्ये । सुप्तोऽहं किल विललाप । अपह्नवे। नाहं कलिंगं जगाम । इत्युदाह रणं । सूत्रम् । यावत्पुरानिपातयोर्योगे भविष्यदर्थे तिबादयः लट् । पुरा करोति । यावत्करोति । करिष्यतीत्यर्थः । यावत्पुरानिपातयोः । यावत् पुरा अनयोनिपातयाोंगे भविष्यदर्थे विबादयः प्रत्यया भवंति । लिट्लकारश्च । अस्योदाहरणं । पुरा करोति । पुरा करिष्यति इत्यर्थः । यावत् करोति । करिष्यति इत्यर्थः । सूत्रम् । स्मृत्यर्थधातुयोगे भूतेऽथै लुट् । स्मरसि मित्र यदुपकरिष्यसि उपकुरुथा इत्यर्थः ॥ इति लकारार्थप्रक्रिया ॥
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy