________________
भावकर्म क्रिया ।
५२१
क्षत | अस्नोष्ट | अस्नाविष्ट । अनंस्त । अनंसातां । अनंसत । अथ द्विकर्मका धातवः कथ्यते । द्वे कर्मणी यस्य स द्विकर्मकः । यस्य धातोः कर्मद्वयापेक्षत्वं भवति स द्विकर्मकः । ते धातवः श्लोकेन गणिताः। दुह्याच्पचदंडरू धिप्रच्छिचित्रशास्त्रनिमथ्मुषां ॥ कर्मयुक् स्यादकथितं तथास्यानीहृकृष्वहाँ । दुह् । याच् । पच् । दंड् । रुधि । मच्छि । चि । ब्रू | शास् | जि । मथ् । शुष् | नी । हृ । कृष् | वह एतेषां धातूनां द्विकर्मकत्वं स्पात् | न्यादयोऽयंत निष्कर्मगत्यर्था मुख्यकर्मणि ॥ प्रत्ययं यांति दुह्यादिर्गौणेऽन्ये तु यथारुचि । न्यादयः । त्र्यंत निःकर्मगत्यर्थाः धातवः मुख्यकर्मणि प्रत्ययं यांति दुह्यादिगणे कर्मणि प्रत्ययं याति । अन्ये तु यथारुचि प्रत्ययं यांति । गौणे वा मुख्ये वा । उभयत्रापि वा । तत्र द्विकर्मके कर्मद्वयं । एकं मुख्यं कर्म । अपरं च गौणं कर्म । यदर्थं किया आरम्यते । तत् मुख्यं कर्म । अन्यद् गौणं । न्यादीनां मुख्पे कर्मणिप्रथमा । याच्यादीनां तु गौणे कर्मणि प्रथमा । प्रच्छादीनां तु मुख्येऽमुख्ये वा पि कर्मणि प्रथमा । निन्ये विजनम जागरि रजनीमगमि मदमयाचि संभोगं ॥ गोपी हास्यमकार्यत भावश्चैनामनंतेन । अस्य व्याख्या । अनंतेन गोपी विजनं निन्ये । अनंतेन गोपी रजनीमजागरि । गोपीमदमगमि । त्रिषु स्थानेषु गोपी मुख्यं कर्म । गोपी संभोगभयाचि । गोपी हास्यमकार्यंत । एनां भावोऽकार्यत । अथ दुह्यादीनामुदाहरणानि आह । मूले तु कर्त्तुरिष्टतमं प्रधानं कर्म । अन्यदप्रधानमिति व्याख्यातं । तदपि समीचीनं । नगरं नीयते नागरिकैर्वनेचरः । अत्र वनेचरस्य मुख्यत्वम् । नगरस्य गौणत्वम् । तेन वनेचर इति प्रथमा । यदा मुख्ये कर्मणि प्रथमा तदा गौणे द्वितीया । यदा गौणं प्रथमा तदा मुख्ये द्वितीया भवति । इति विवेकः । यदा मुख्यामुख्ये द्वे अपि प्रत्यये न अभिधीयेते तदोभयत्रापि प्रथमा । भोजनं याच्यते यजमानो याचकेन । अत्र मुख्ये द्वितीया । गौणे प्रथमा । पृच्छयते पंथानं पथिकेन पांथः । अत्रापि मुख्ये द्वितीया गौणे प्रथमा । शिष्येणाचार्यस्तत्त्वं पृच्छयते । अन्याम्यपि उदाहरणानि यथासंभवं ज्ञेयानि । सप्रत्ययांतात् कृधातोर्यक् । चिकीर्ष्यते । चिकीर्ष्यत । चिकीर्ष्यतां । अचिकीर्ष्यत । लिट्लकारे । चिकीषांचक्रे । चिकीर्षिषीष्ट । अचिकीर्षि । कटः चिकीर्ष्यते देवदत्तेन । यन्तात् भूधातोर्यक् । यक्चतुर्षु । अनेन यतः । अनेनाकारलोपः । बोभूय्पते । बोभूय्येत । बोभूय्यतां । दिवादाव | अबोभूय्यत् । बोभूयांचक्रे । इत्यादीनि । ललकारे । अबोभूयिषीष्ट । यतात् पचधातोर्यक् । पापच्यते । पापच्येत । पापच्यतां । अपापच्यत । अनपिचहसात् । अनेन अनपि विषये । यङने लोपः । पापचांचक्रे । पापचिपीष्ट । पापचिता । पापचिष्यते । अपापचिष्यत । अपापचि । इत्यादीनि रूपाणि भवंति तानि सुगमानि । इति भावकर्मप्रक्रिया समाप्ता ।
अथ लकारार्थप्रक्रिया |
દૂર