________________
५३०
सारस्वते द्वितीयवृत्ती लिट्लकारे । द्विश्च । पूर्वस्य । लोपः पा । पेचे । पेचाते । पेचिरे । चोः कुः । प. त्वम् । कषसंयोगे । पक्षीष्ट । पत्ता । पक्ष्यते । अपक्ष्यत । लुङ्लकारे । इण् । अत उपधायाः । तनोलोपः । अपाचि । अपक्षातां । अपक्षत । इत्यादीनि । मिदिर् विपारणे । कश्चिदेवं वक्ति । देवदत्तः काष्ठं भिनत्ति । स एवं वक्ति नाहं मिनमि। किंतु काष्ठं स्वयमेव भिद्यते । यक्चतुषु । भिद्यते । मिद्येत । भिद्यतां । अभियंत । लिट्लकारे। द्विश्च । पूर्वस्य । बिभिदे । बिभिदाते । बिभिदिरे । भित्सीष्ट । भेत्ता । भेत्स्पते । अभेत्स्यत । लुङ् । इण् । गुणः । तनोलोपः । अमेदि । अभित्साता अभित्सत । सूत्रम् ।
दुहस्नुनमां कर्मकर्तरि यगिणौ न । दुग्धे स्नुते गौः स्वयमेव । नमते दण्डः स्वयमेव । अदुग्ध, अनोष्ट, अनाविष्ट, अनस्त । अथ द्विकर्मकाः।
दुह्याच्पच्दण्डूरुधिच्छिचिबूशासुजिमथमुषाम् ॥ कर्मयुक् स्यादकथितं तथा स्यानीहकृष्वहाम् ॥ न्यादयो ज्यन्तनिष्कर्मगत्यर्था मुख्यकर्मणि ॥ प्रत्ययं यान्ति दुह्यादिगौणेऽन्ये तु यथारुचि ॥ निन्ये विजनमजागरि रजनीमगमि मदमयाचि संभोगम् ॥ गोपीहास्य
मकार्यत आवश्चैनामनन्तेन ॥ कर्तुरिष्टतमं प्रधानं कर्म । अन्यदप्रधानम् । नगरं नीयते नागरिकैर्वनेचरः । भोजनं याच्यते यजमानो याचकेन । पछयते पन्थानं पथिकेन पान्थः । शिष्यणाचार्यस्तत्वं प्रछयते । कटश्चिकीर्ण्यते देवदत्तेन । यतः । बोभूय्यते । अनपि च हसात् । पापच्यते । तेन पापचिता अपापचि इत्यादि । इति भावकर्मप्रक्रिया।
दहस्तुनमां । दुह । स्नु । नम् । एतेषां धातून कर्मकर्तरियगिणौ न भवतः। तेषां धातूना रूपाणि पूर्ववत् ज्ञेयानि । आत्मनेपदे । दुग्धे । दुहाते । दुहते । इ. त्यादीनि रूपाणि ज्ञेयानि । स्नुधातोः । स्नुते । स्नुवाते । स्तुवते । इत्यादीनि । नमधातोः । नमते । नमेते । नमते । त्रयाणां ललकारे । अदुग्ध । अक्षातां अधु