________________
भावकर्मप्रक्रिया। शमिषातां । अशामिषत । अशमिषत । इत्यादीनि रूपाणि भवति । तानि अनेनैव कमेण साध्यानि । ऋ गतौ । पक् चतुषु । अनेन यसत्ययः । गुणोतिसंयोगायोः । अनेन गुणः । अर्यते । अर्येत । अर्यतां । विवादावट् । स्वरादेः । अनेन द्वितीयोऽडागमः । सवर्णे । आर्यत । इत्यादीनि रूपाणि भवंति । लिट्लकारे । साधनं पूर्ववत् । आर । आरतुः । आरुः । इत्यादीनि । आरिषीष्ट । ऋषीष्ट । आरिता । अर्ता । आरिण्यते । आरिष्यत । लुङ्लकारे । आरि । आरिषातां । इत्यादीनि । एवं स्मृ स्मरणे । यक् । गुणोतिः अनेन गुणः । स्मर्यते । स्मर्यंत । स्मर्यतां । अस्मर्यंत । लिट्लकारे । सस्मरे । स्मारिषीष्ट । स्मृषीष्ट । स्मारिता । स्मर्त्ता । इत्यादीनि । लुङ् लकारे । अस्मारि । अस्मारिषावां । अस्मृषातां । इत्यादीनि । अथ । कर्मोक्ताधिकारे कर्मकर्तृलक्षणम् । तस्योदाहरणं चाह । यत्कर्मेति । यत्कर्मापि गुणयोगात् वस्तुमध्यस्थितसुकरादिमाईवादिगुणस्प संयोगात् । उपचारात् कर्तृत्वेन विवक्ष्यते सः कर्मकर्तेत्युच्यते । यतः । क्रियमाणं तु यत्कर्म स्वयमेव मसिध्यति । सुकरैः स्वैर्गुणैर्यस्मात कर्मकर्चेति वद्विदः । तत्रापि एतदेव यमत्ययांतस्यैवोदाहरणमुच्यते । सूत्रम् ।
कर्मवत्कर्मणा तुल्यक्रियः। कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवद्भवति । लूयते केदारः स्वयमेव । लुलुवे, अलावि, अलाविषाताम् । पच्यते ओदनः स्वयमेव । भिदिर विदारणे । भिद्यते काष्ठं स्वयमेव । अमेदि ।
कर्मवत्कर्मणातुल्यक्रियः। कर्मवत् (म०ए०) कर्मणा (तृ०ए०) तुल्यक्रिया (१० ए०, कर्मस्था या क्रिया तया क्रियया तुल्यक्रिया कर्ता कर्मवद् भवति । अनेन कर्तुः कर्मत्वं भवति । लूथ् छेदने । देवदत्तः केदार लुनाति ।स एवं वदति । नाहं लुनामि किंतु केदारः स्वयमेव लूयते । लूश्वातोः यक्वतुषु ' अनेन यसत्ययो भवति । लूयते । लूयेत । लूपतां । दिवादावट् । अलूयत । लिट्लकारे । द्विश्च । नुधातोः । लुलुवे । लुलुवाते । लुविरे। स्वरांताना० अनेन इट् । इटो वाणित्त्वम् । णित्त्वाद् वृद्विः । लाविषीष्ट । लविषीष्ट । णित्त्वाभावपक्षे । इदं रूपम् । लाविता । लविता । ला. विष्यते । लविण्यते । दिबादावट् । अलाविष्यत । अलविष्यत । लुङ्लकारे । इण् । वृद्धिः । तनो लोपः । अलावि । अलाविषातां । अलविषातां । अलाविषत । अलविषत । इत्यादीनि रूपाणि भवति । डुपचष् पाके । पच् वे। यमत्ययो भवति । कश्चिद् वक्ति देवदत्त ओदनं पचति । स एवं वदति नाहं पचामि किंतु ओदनः स्वयमेव पच्यते । अत्र ओदनस्य स्वयमेव पाकसिद्धौ सामर्थ्य ततः कर्मकर्तृत्वम् । कर्म एव कर्ता जातः । न पुनस्तृतीयांवः कर्ता भवति । पच्यते । पच्येत । पच्यताम् । अपच्यत ।