SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ ५१४ सारस्वते द्वितीयवृचौ शायिता । शयिता । शायिष्यते । शपिण्यते । विवादावट् । अशायिष्यत । अशयिज्यत । लुङ्लकारे । इण्तन्यकर्तरि अनेन इण् । वृद्धिः। अशायि । अशायिषा. तां । अशयिषातां । अशायिषत । अशयिषत । यदा । अनुपूर्वोऽयं तदा । अन्वशायि । इत्यादीनि भवंति । सकर्मकधातुलक्षणमाह । ये कर्मसापेक्षा । ये धातवः कर्मसापेक्षा क्रियामाहुस्ते धातवः सकर्मका ज्ञेयाः करोत्यादयः । डुकृञ् करणे अस्य धातोः यक् चतुर्षु अनेन यक् । अयकि । अनेन ऋकारस्य रिः। क्रियते । क्रियेत । क्रियतां । अक्रियत । लिट्लकारे । द्विश्च । रः । कुहोचः । ऋरं । चक्रे । च. काते । चक्रिरे । इत्यादीनि । स्वरांता अनेन इट् । अयं धातुरनिट् । तस्माद् वि. कल्पेन इटू । नित्यं णित् । ईटो णित्वात् धातोर्नामिनः अनेन वृद्धिः । कारिषीष्ट । इडभावे । नुः अनेन गुणनिषेधः । षत्वं । कृषीष्ट । कारिता । कारितारौ । कारिसारः । इडभावे । गुणः । कर्ता । कर्तारौ । कारः। कारिष्यते । कारिष्यते । कारिष्यन्ते । णित्त्वाभावपक्षे । हनृतः स्यपः । अनेन इट् । गुणः । करिष्यते । करिप्यते । करिष्यते । अकारिण्यत । अकारिण्यैतां । अकारिण्यंत । णित्त्वाभावपक्षे । अकरिष्यत । अकरिष्येतां । अकरिष्यंत । इत्यादीनि रूपाणि भवंति । लुल्लकारे । इण तन्यकरि । धातोर्नामिनः । लोपः । अनेन तनो लोपः । अकारि । अकारिषासाम् । अकृषाताम् । अकारिषत। अकृषत । इत्यादीनि । देवदत्तेन त्वं सुखी क्रियसे। रोगैस्त्वं दुःखी क्रियसे । विरागैः मुख्यहं क्रिये । चिञ् चयने । यक् चतुर्षु अनेन यमत्ययः । ये अनेन दीर्घः । चीयते । चीयते । चीयंते । चीयेत । चीयेयातां । चीयेरन् । चीयतां । चीयेतां । चीयंता । दिबादावट । अचीयत । अचीयेतां । अचीयंत । लिट् । द्विश्च । नुधातोः । चिच्ये । चिच्याते । चिच्यिरे । स्वरांतानां० अनेन इट् । णित्त्वात् वृद्धिः। धातोर्नामिनः । अनेन । ऐ आय् । चापिषीष्ट । इडभावपक्षे । गुणः । चेषीष्ट । चायिता । चेता । चायिष्यते । चायिष्यते । चायिष्यते। इडभावपक्षे । चेण्यते । चेष्येते । चेण्यंते । दिबादावट् । अचायिण्यत । अचायिष्येताम् । अचायिष्यंत । इडभावपक्षे । अचेष्यंत । लुलकारे । इण् । वृद्धिः । तनो लोपः। दिबादावट् । अचायिषातां । इडभावपक्षे । अचेषातां । अचायिषत | अचेषत । इत्यादीनि । दा दाने । यक् चतुर्दा । अनेन यक् । दादेरिः अनेन इकारः। ये। अनेन दीर्घः । दीयते । दीयेते । दीयते । दीयेत । दीयेयातां । दीयेरन् । दीयतां । दीयेतां । दीयंताम् । दिबादावढ् । अदीयत । अदीयेतां । अदीयंत । लिट् । द्विश्च । हस्वः । आतोऽनपि । ददे । ददाते । ददिरे । दासीष्ट । इति स्थिते । स्वरांतानां० अनेन इट् । इटो णित्त्वं । सूत्रम् । आतो युक् । आकारान्ताद्धातोर्युगागमो भवति जिति च
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy