________________
भावकर्मप्रक्रिया |
५१३
उपसर्गेति । उपसर्गेण धातोरर्थोऽन्यत्र नीयते । अन्यस्मिन्नर्थे प्राप्यत इत्यर्थः । उदाहरणानि उत्तरार्द्ध संति । अन्योऽपि श्लोकोऽस्ति । कश्चिदुपसर्गो धातोर बाधते । कश्चिदुपसर्गो धातोरर्थमनुवर्त्तते । कश्चिदुपसर्गस्तमेवार्थं विशिनष्टि । अनया रीत्योपसर्गाणां त्रिधा गतिरस्ति । भूसत्तायां अयंधातुर्यद्यपि अकर्मकः तथापि यदानुपूर्वः तदा सकर्मकः । उदाहरणम् । सुखमनुभूयते स्वामिना । अन्वभाविभवो भवता । इदमप्युदाहरणम् । शीघ्र स्वप्ने । यक् चतुर्षु । अनेनास्य यक्मत्ययः । शीयते । इति स्थिते । सूत्रम् ।
शीङ यङ् किति ङिति ये वक्तव्यः । शय्यते, शिष्ये, शायिषीष्ट, शयिषीष्ट अशायि । अन्वशायि अन्वशायिषाताम् अन्यशयिषाताम् अन्वशायिषत- अन्वशयिषत । ये कर्मसापेक्षां क्रियामाहस्ते सकर्मकाः । अयकि । घटः क्रियते देवदत्तेन । त्वं दुःखी क्रियसे रागैः । विरागैः सुरुयहं क्रिये । चक्रे, कारिषीष्ट कृषीष्ट, कारिता - कर्ता, कारिष्यते, करिष्यते, अकारिष्यत - अकरिष्यत । अकारि अकारिषाताम् अकृषाताम अकारिषत - अकृषत । चिञ् चयने । चीयते, चिच्ये, चायिषीष्ट चेषीष्ट, चायिता- चेता, चायिष्यते चेष्यते, अचा यिष्यत अचेष्यत । अचायि अचायिषाताम् अचेषाताम् । दादेरिः । दीयते । ददे ददाते ददिरे ।
शीङने यङ् । शीङः ( ष० ए० ) अयडू (म० ए० ) शीधातोः यकि परे सति अयङादेशो भवति । ङकारोंत्यादेशार्थः । तेनेकारस्य भवति । अकार उच्चारणार्थः । शय्यते शूद्रेण । केचिदाचार्याः इदं सूत्रं न पठति । किंतु । शीङः सर्वत्र गुणो भवति । अनेन कित्यपि गुणः । कचित्स्वरवद् यकारः अनेन यकारस्य स्वरत्वात् णअप् । शय्यते । शय्येते । शय्यंते । शय्येत । शय्येयातां । शय्यरन् । शय्यतां । शय्येतां । शय्यंतां । दिबादावट् । अशय्यत । अशय्येतां । अशय्यंत | इत्यादीनि रूपाणि भवंति । लिट्लकारे । द्विश्च । नुधातोः । ह्रस्वः । अनेन पूर्वस्य ह्रस्वो भवति । शिश्ये । शिश्याते । शिश्यिरे । इत्यादीनि । स्वरांता ० अनेनेट् । इटो वा णित्वम् । धातोर्नामिनः । अनेन वृद्धिः । ऐ आय् । शायिषीष्ट । णित्वाभावपक्षे गुणः । ए अय् । शयिषीष्ट । एवं सर्वत्र वा णित्वं ज्ञेयमस्य धातोः ।
६५