________________
सारस्वते द्वितीयवृत्तौ
स्वरांतानां । स्वरांतानां धातूनां हनग्रहदशां च धातूनां भावकर्मणोः सिस. तासीस्पामि वा इण्वद्वक्तव्यः । वाग्रहणात्सेटां धातूनां नित्यमिट् स विकल्पेन णित् । अनिटां धातूनां विकल्पेन इड् भवति स नित्यं णिद् भवति । अन्यद् व्याख्यानं मूले कृतम् | तत्सुगममेव । लिङ् । अनेन इट् । स दि वा भवति । णित्त्वाद् वृद्धिः ' धातोर्नामिनः ' अनेन सूत्रेण । भाविषीष्ट । णिद्भावपक्षे । गुगः । ओअबू । भविषीष्ट । इत्यादीनि भवंति । भाविता । भावितारौ । भावितारः । णित्वाभावपक्षे । गुणः । भविता । भवितारौ । भवितारः । भाविष्यते । भाविष्येते । भाविष्यंते । इत्यादीनि । दिबादाव | अभाविष्यत । अभाविष्येताम् | अभाविष्यंत | अभवि ष्यत । अभविष्येतां । अभविष्यंत । लुङ्लकारे । सूत्रम् ।
५१२
इण् तन्यकर्त्तरि । धातोस्तनि परे भावे कर्मणि च इणू प्रत्ययों भवति । सेरपवादः । णो वृद्ध्यर्थः । लोपः ।
इणू तन्यकर्तरि । इणू (म० ए० ) तनि (स० ए० ) अकर्त्तरि (स० ए० ) धातोस्तनि परे । अकर्त्तरि भावे लोपः कर्मणि च । इणप्रत्ययो भवति । भूते सिः । अस्यापवादोयम् । णित्वाद् वृद्धिः । धातोर्नामिनः । अनेन सु. त्रेण । णकारस्तु वृद्धयर्थः । सूत्रम् ।
इणसंयोगे तनो लोपो भवति । अभावि । अकर्मकोऽपि कदाचित् सकर्मकतामनुभवति । उक्तं च ।
इणूसंयोगे । इणः संयोगे सति तनः प्रत्ययस्य लोपो भवति । अनेन तन लोपः । दिबादावट् । अभावि । अभाविषातां । अभविषातां । अभाविषत | अभवि - a | इत्यादीनि रूपाणि भवंति । तानि सुगमान्येव अनेनैव प्रकारेण साध्यानि । विकल्पेन णित्वाद् वृद्धिविकल्पः । अकर्मकोऽपि धातुः कदाचिदुपसर्गबलात् सकर्मकतामनुभवति । उक्तं च ।
उपसर्गेण धात्वर्थो बलादन्यत्र नीयते ॥ विहाराहारसंहारप्रतिहारप्रहारवत् ॥
धात्वर्थ बोधते कश्वित् कश्वित्तमनुवर्तते ॥ विशिनष्टि तमेवार्थमुपसर्गगतिविधा | सुखमनुभूयते स्वामिना । अन्वभावि भवो भवता । अम्बभाविषाताम् अन्वभविषाताम् अन्वभाविषत अन्वभविषत।