________________
भावकर्मप्रक्रिया।
१११ भावस्यैकत्वादेकवचनमेव भवति प्रथमपुरुषस्य । भूयते,मविता, भूयेत, भूयताम, अभूयत, बभूवे ।
अकर्मका लजासत्ताधर्थवाचकाः । तथा सकर्मकेभ्यो धातुभ्य आत्मनेपदं भवति । अयंभावः भावोत्तौ तृतीयांतः कर्ता अकर्मकधातोः आत्मनपदं भवति। दशानामपि विभक्तीनां प्रथमपुरुषैकवचनम्। कर्मोकौ च तृतीयांतः कर्चा, प्रथमांतं कर्म, क्रियायाश्चात्मनेपदं भवति । विभकिचतुष्टयेऽपि यक्मत्ययांतमेव । कर्मण एकवचने सति क्रियाया एकवचनं । कर्मणो द्विवचने सति क्रियाया द्विवचनम् । कर्मणो बहुवचने सति क्रियाया बहुवचनं भवति । इति ज्ञातव्यम् । कर्तरि प्रथमा यत्र द्वितीया तत्र कर्मणि। धातोरुमे पदे स्यातामेतत् कक्तिलक्षणम् । कतरि ततीया यत्र प्रथमा तत्र कर्मणि। यमत्ययांतं विज्ञेयं धातोश्चात्रात्मनेपदम् । भावे कर्त्ता तृतीयांतः कर्म चात्र भवेनहि। क्रियायाश्चैकवचनं भवेचक्यात्मनेपदम् । अथाकर्मकान् धातूनाह । ये कमैति । ये धातवः कर्मवांछारहितां क्रियां कथयति । ते अकर्मकाः । ते धातवो लज्जासत्ता० । अनेन श्लोकेन कथिताः । ततोऽन्येपि ज्ञातव्याः। भावस्तु एक एव । भावलक्षणमा. है। धात्वर्थः केवलः शुद्धो भाव इत्यभिधीयते । ततो भावस्यैकत्वात्पथमपुरुषस्य एकवचनमेव भवति । भू सचायां । ते आदयः प्रत्यया भवंति । यक् चतुषु अनेन यात्ययो भवति । भूयते । भूयेते । भूयंते । इत्यादीनि रूपाणि भवंति । भूयेत । भूयेयातां । भूयेरन् । भूयतां । भूयतां । भूयंतां । दिवादावट । अभूयत । अभूयेतां । अभूयंत । भवता भूयते । इत्युदाहरणम् । लिट्लकारे तु पूर्ववत्साधनं कार्यम् । बभूवे इत्यादीनि रूपाणि भवंति । सूत्रम् ।
स्वरान्तानां हन्ग्रहदृशां च भावकर्मणोः सिसतासीस्यपामिट् वा इण्वक्तव्यः । वाशब्दात्सेटां धातूनां नित्यमिट्र स विकल्पेन णित् । अनिटां धातूनां विकल्पेन इट्स नित्यं णित् । एवं च हवशोरनिटोर्वा इट् स च नित्यं णित् । ग्रहधातुस्तु सेट् । ततः परो नित्यमिट स च वा णित् । णित्वादृद्धिः । भाविषीष्ट । णित्त्वाभावे भविषीष्ट । भाविता भविता, भाविष्यते-भविष्यते, अभाविष्यत. अभविष्यत ।