SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ ५१० सारस्वते द्वितीयवृत्तौ आत्मनेपदं भवति । परस्परमेकक्रियाकरणं कर्मव्यतिहारः । श्रद्धा आस्तिक्यबुद्धिः । श्रद्धा व्यतिभवते परस्परं भवति इत्यर्थः । अस् भुवि । व्यतिस्ते । विवदंते वादिनः । इत्युदाहरणानि ज्ञातव्यानि । अन्यत्रेति किं । व्यतिघ्नंति । व्यतिगच्छंति । व्यतिपठति । व्यतिजल्पंति । व्यविहसंति । एतेषु आत्मनेपदं न भवति । सूत्रे - निषेधात् । इतरेतरम् अन्योन्यं परस्परं व्यतिलुनंति । इत्यत्रापि आत्मने - पदं न भवति । सूत्रम् । भुजो भोजने आत्मनेपदं वाच्यम् । भुङ्क्ते ओदनम् । भुनक्ति महीं नृपः । इत्यात्मनेपदव्यवस्थाप्रक्रिया | भुजो भोजने । भुज पालनाभ्यवहारयोः । अस्य भोजनेऽर्थे आत्मनेपदं भवति । उदाहरणम् । देवदत्त ओदनं भुंक्ते । भोजनाभावे तु भुनक्ति महीं नृपः । अ श्रात्मनेपदं न भवति । इत्यात्मनेपदव्यवस्थाप्रक्रिया समाप्ता । अथ भावकर्मणोर्यकि प्रक्रिया | ' अथ भावकर्मणोर्यक प्रक्रिया कथ्यते । भावश्च कर्म च भावकर्मणी तयोः भावकर्मणोः । बालबोधनार्थमिदं समाससूत्रम् । यक् चतुर्षु । धातोर्भावे कर्मणि च यक् प्रत्ययो भवति चतुर्षु पूर्वोक्तेषु परतः । ककारो गुणप्रतिषेधार्थः । यक् चतुर्षु । यक् (म० ए० ) चतुर्षु (स० ब० ) धातोर्भावे कर्मणि च चतुर्षु पूर्वोक्तेषु तिबादिषु परेषु यक्प्रत्ययो भवति । ककारो गुणप्रतिषेधार्थः । अयकि इति सूत्रविशेषणार्थः । अनेन धातोर्यकू । यकि सति पदनियममाह । आद भुवि कर्मणि । अकर्मकेभ्यो भुवि भावे सकर्मकेभ्यश्च कर्मण्यात्मनेपदं भवति । ये कर्मनिरपेक्षां क्रियामाहुस्ते अकर्मकाः । भूएधूआस्शीप्रभृतयः । तदुक्तम् । आ भुवि कर्मणि । आत् (म० ए०) भुवि (स० ए० ) कर्मणि (स० ए० ) । अकर्मकेभ्यो न विद्यते कर्म येषां ते अकर्मकाः तेभ्यः अकर्मकेभ्यो धातुभ्यो भुवि भावोक्तौ । लज्जासत्ता स्थितिजागरणं वृद्धिक्षयभयजीवितमरणम् ॥ शयनक्रीडारुचिदीत्यर्थं धातुगणं तमककमाहुः ॥ १ ॥
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy