________________
सारस्वते द्वितीयवृत्ती विपराभ्यां । विपराभ्यांमुपसाया परस्य जयते_तोरात्मनेपदं भवति । विजयते । पराजयते । इत्युदाहरणम् । सूत्रम् ।
समो गमादिभ्यः। संगच्छते ।
समः । समुपसर्गात् गमादिभ्यो धातुभ्य आत्मनेपदं भवति । संगच्छते । सूत्रम् ।
गमः परौ सिस्यौ आत्मनेपदे वा कितौ वाच्यौ । लोपस्त्वनुदात्ततनाम् । संगसीष्ट । लोपो हस्वाज्झसे । समगत, समगस्त । ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु । समृच्छते, संप्टच्छते । स्व शब्दोपतापयो । संस्वरते, संस्थषीष्ट, संस्वरिषीष्ट । समियते, संशृणुते, संविते, संविदाते । वित्तेरन्तो वा रुद् आति । संविद्रते, संविदते, संपश्यते, गम ऋच्छ प्रच्छ स्त्र ऋश्रु विद दृश एते गमादयः ।
गमः। गम्धातोः परौ सिस्यौ वा कितौ वाच्यौ आत्मनेपदे । तस्मादाशिषि नकारस्य लोपो वा भवति । संगसीष्ट । संगसीष्ट । लुङ् । लोपो हस्वान्झसे । अनेन स्यकारस्य वा लोपः । समगत । समगस्त । इत्यादीनि रूपाणि | आदिशब्दात् । समृच्छते । संपृच्छते । संशृणुते । समियते । इत्यादीनि । स्व शब्दापतापयोः। संस्वरते । अस्येड्विकल्पः । उः अनेन गुणनिपेधः। संस्वृसीष्ट । संस्वरिपीष्ट । संविचे । अंतो वा रुद् आत्मनेपदे । संविद्रते । संविदते । गमादयो मूले उक्ताः । सूत्रम् ।
आडो दोऽनास्यविहरणे। आङ्पूर्वाददातरात्मनेपदं भवति मुखप्रसारणव्यतिरिक्तेऽर्थे । आदत्ते । मुखं व्याददाति । अत्र न।
आङोदोलास्य विहरणे । आङः (पं० ए०) दः (प० ए० ) अना• स्यविहरणे (स० ए०) । आस्यस्य मुखस्य विहरणं प्रसारणं आस्यविहरणम् | न आस्यविहरणमनास्यविहरणं तस्मिन् अनास्यविहरणे । आपुर्वात् ददातेर्धातोरात्मनेपदं भवति मुखप्रसारणव्यतिरिक्तेऽर्थे । आदते । मुखप्रसारणे तु । मुखं व्याद दाति । अत्रात्मनेपदं न भवति । सूत्रम् ।