SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ आत्मनेपदप्रक्रिया | भृशादिभ्यो ऽभूततद्भावे यङ् वाच्यः । अशो भृशो भवतीति भृशायते । श्यामायते इत्यादि । भृशादिभ्यः । श्वशादिभ्यः शब्देम्पोऽभूततद्भावे यस्मत्पयो वाच्यः । अशो भृशो भवतीति यङ् । ये । भृशायते । लिट् । भृशायांचक्रे । लुङ् । अभूशाविष्ट | अश्यामः श्यामो भवतीति यङ् । ये । श्यामायते । लिट् । श्यामार्यांचक्रे । लुङ् | अश्यामायिष्ट । सूत्रम् । अश्ववृषयो मैथुनेच्छाया यः प्रत्ययः सुगागमश्व । अश्वस्पति वडवा । वृषस्यति गौः । ५०५ अश्ववृषयोः । अश्वषयोः शब्दयों मैथुनेच्छायां यः प्रत्ययो भवति । सुगागमश्च भवति । अश्व इव आचरतीति । यः । सुगागमः । अश्वस्यति । अश्वस्पांचकार | आश्वसीत् । वृष इव आचरतीति । यः । सुक् । वृषस्यति गौः । पुरुष इव आचरतीति । यः । सुक् । पुरुषस्यति कामातुरा । सूत्रम् । सुखादिभ्यो ज्ञापनायां यङ् । सुखं ज्ञापयति सुखायते । इति नामधातुप्रक्रिया | सुखादिभ्यः । सुखादिभ्यः शब्देभ्यो ज्ञापनायां यत्पयो भवति । सुखं ज्ञापयतीति । यङ् । ये । सुखायते । सुखायांचक्रे । असुखायिष्ट | इत्यादीनि । इति नामधातुप्रक्रिया समाप्ता । अथात्मनेपदव्यवस्था । अथात्मनेपदव्यवस्था कथ्यते । सूत्रम् । निविशादेः। नीत्याद्युपसर्गपूर्वकाद्विशादेर्धातोरात्मनेपदं भ afa | निविशते । निविशादेः । निपूर्वो विश् आदिर्यस्य स निविशादिः । तस्य निविशादेः ( पं० ए० ) । निपूर्वस्य विशादेर्धातोः परस्मैपदिनोऽपि आत्मनेपदं भवति । विश् प्रवेशने । निपूर्वः । अनेन सूत्रेण आत्मनेपदं भवति । ते इत्यादयः प्रत्यया भवति । निविशते । तुदादेर: । अनेनात्र अः प्रत्ययो भवति । सूत्रम् | विपराभ्यां जेः । विजयते पराजयते । ૪ 1
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy