________________
५०४
सारस्वते द्वितीयवृत्ती ‘कर्तर्यक कर्तुः (पं० ए०) यङ् (म० ए०) क रुपमानादाचारेऽर्थ यङ् प्रत्ययो भवति । उकार आत्मनेपदार्थः । श्येन इव आचरति । इति विग्रहे । अनेन सूत्रेण यत् । ये । अन्यत्पूर्ववत् । श्येनायते | श्येनायांवके । लुङ्लकारे । अश्येनायिष्ट । काकः श्येनायते । पंडित इव आचरति । य । ये । पंडितायते । पंडितायांचके । लुङ् । अपंडितायिष्ट । अप्सरा इव आचरति । यङ् । सूत्रम् ।
यङि सलोपो वाच्यः । पयसस्तु विभाषया । अप्सरायते
ओजायते पयायते पयस्यते सुमनायते ।
यडि । यहि परें सकारस्य लोपो वाच्यः । द्वितीयं पयस्शन्दस्य विकल्पेन भवति । ये । अप्सरायते । अप्सरायांचक्रे । स्वरादेः । आप्सरायिष्ठ । ओज इव आ. चरति । यङ् सकारलोपः । ये । पयायते । वा ग्रहणात् । पयस्यते । पयायांवके । पयस्यांचके । यलोपो वा । पयसां चके । अपयापिष्ट । अपयस्पिष्ट । अपयसिष्ट । इत्यादीनि । सुमना इव आचरति । यङ् । सलोपः । ये । अन्यत् पूर्ववत् । सुम. नापते । लिटू । कासादि० । सुमनायांचक्रे | लुङ् । असुमनायिष्ट । सूत्रम् ।
नाम्न आचारे क्विप वाच्यः । कृष्ण इव आचरति कृष्णति। विपो लोपः।
नाम्नः । नाम्नः पदात् आचारेऽर्थे किए प्रत्ययो वाच्यः । कृष्ण इव आ. चरतीति । किप प्रत्ययः । विपो लोपः । किप्प्रत्ययस्य लोपो भवति । स धातुः । पश्चात् । लोपः कार्यः। अप्कृतरि | कृष्णति । लिट् । कासादि० । कृष्णांचकार । कृष्ण्यात् । सिसता० । कृष्णिता । लुङ् । अकृष्णीत् । सूत्रम् ।
आचार उपमानावाकर्माधारयोरुपमानात् यः प्रत्ययो भवति आचारेऽर्थे । आकारस्येकारः । पुत्रीयति शिष्यमुपाध्यायः। . प्रासादीयति कुड्याम् ।
आचारे उपमानात् । आचारे (स० ए० ) उपमानान (पं०ए० ) का धारयोरुपमानात् आचारेऽर्थे यप्रत्ययो भवति । अकारस्प ईकारः । पुत्र इव आचरति । अनेन यः प्रत्ययः । अफारस्य ईकारः । अन्यत्साधनं तु पूर्ववत् । पुत्रीयति शिष्यमुपाध्यायः । पासाद इव आचरतीति यः प्रत्ययः । अकारस्य ईकारः । मामादीयति कुड्यं भिक्षुः । लिन् । प्रामादीपांचकार । लुङ् । अप्रासादीपीत् । सूत्रम् ।