________________
आत्मनेपदमक्रिया।
५०७ कीडोऽनुसंपरिभ्यश्च । अनुसंपरिभ्यः क्रीडतरात्मनेपदं स्यात् । कीड विहारे शब्दे च । अनुक्रीडते संक्रोडते परिक्रीडते । शब्दे तु न । संक्रीडति चक्रम् ।
क्रीडोऽनुसंपरिभ्यश्च । क्रीडः (१० ए०)। अनुसंपरिभ्यः (पं. ब. ) च (म० ए०) अव्ययम् । अनुसंपरिभ्य उपसर्गेभ्यः क्रीड विहारे इत्यस्प धातोरात्मनेपदं भवति । क्रीड विहारे शब्दे च । अनुकीदते । संक्रीडते । परिक्रीडते । इत्युदाहरणानि । शब्दे तु नात्मनेपदं भवति । संक्रीडति चक्रम् । अत्र न भवति । सूत्रम् ।
समवप्रोपविभ्यः स्थः। एभ्यस्तिष्ठतेरात्मनेपदं भवति । संतिष्ठते, अवतिष्ठते, प्रतिष्ठते, उपतिष्ठते, वितिष्ठते ।
समवप्रोपविभ्यः स्थः । समवमोपविभ्यः (पं० ब०)। स्थः (प.ए.)। सम् अव प्र उप वि एभ्य उपसर्गेभ्यः ४ा गतिनिवृत्तौ इत्यस्य धातोरात्मनेपदं भवति । संतिष्ठते । अवविष्ठते । प्रतिष्ठते । उपतिष्ठते । वितिष्ठते । इत्युदाहरणानि । सूत्रम् ।
आडो यमहनः । आङ्परयोर्यमहनारात्मनेपदं भवति । आयच्छते, आहते।
आङो यमहनः । भाडा ( ० ए०) यमहनः (१० ए०) आसरयोर्यमहनोर्धातोरात्मनेपदं भवति । आयच्छते । आइते । सूत्रम् ।
अकर्मकयोरात्माङ्गकर्मकयो । आयच्छते पाणिम् । आहते शिरः । अन्यथा परशिर आयच्छति । शत्रुमाहन्ति ।
अकर्मकयोः। अकर्मकयोरात्मांगकर्मयोर्यमहनोर्वा आत्मनेपदं भवति । आयच्छते रूपाणि । आहते स्वशिरः। अन्यथा परशिर यच्छति । शत्रुमाहन्ति सूत्रम् ।
हन्तरात्मनेपदे सिः किडाच्यानो लोपः । आहत । लोपस्त्वनुदाचतनाम् । हन्तेः स्याशीर्यादायोर्वधादेश आति वा। अवधिष्ट।
हते। तेर्धातोरात्मनेपदे सिः किद्वाच्यः । लोपः । अनेन नकारलोपः ! आ. हत । इतेः स्याशीर्यादाघोर्वधादेश आत्मनेपदे वा भवति । अवविष्ट । इत्यादीनि । सूत्रम् ।