SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ( ४६ ) सारस्वते प्रथमवृत्तौ । 1 तौ वर्णविकारनाशौ पूर्वावस्थापरित्यागेन अवस्थान्तरापादनं विकारः सर्वथा लोपो नाशः, वर्णानामक्षराणां विकारनाशौ वर्णविकारनाशौ । पञ्चमश्च भेदो धातो स्ताभ्यां वर्णविकारनाशाभ्यां कृत्या पुनर्योऽतिशयः अधिकता कश्चिद्विशेषस्तेन यो भवति स योग इति नाना पञ्चमो भेदः । तस्मात् निरुक्तं निश्चयेन उक्तोऽर्थो यस्य तन्निरुक्तं व्याकरणोदाहरणं पञ्चविधमुच्यते । तानेव व्यञ्जय ति वर्णागमो गवेन्द्रादाविति । गवेन्द्रादौ वर्णागमः । एवं इन् हिंसागत्योः हन् अप्रत्ययः सकारागमः । हंस इति सिद्धं । हिंस इति सिंहे वर्णविपर्ययो भवति । यथा हिंस हिंसायां मूर्ती घन इति अप्रत्ययः ' हिंस+भ इति स्थिते दिनस्तीति विग्रहे ततः हिंस इति शब्दे हस्य स्थाने सः सस्यस्थाने हः एवं वर्णविपर्यय सिंह इति सिद्धम् । स्रो० । यथा षष् दश च इति विग्रहे षष् + दश । अत्र षष उदोडः षस्य उः दस्य डः इति वर्णविकारः । ततः उ ओ षोडश इति विकारोदाहरणम् । गूढः + आत्मा । बंधुजनः+आजुहाव । कुरवः + आत्महितम् । इत्यादिषु वर्णवकारः आकारस्य अकारं विधाय । अतात्युः, उभो । एदोतोतः । गूढोत्मा, बंधुजनोजुहाव, कुरवोत्महितम् । पुषोदरे वर्णनाशः । यथा पृषत् + उदरम् । तकारस्यनाशः लोपः । उभ पृषत् मृगः तस्योदरमिव उदरं यस्यासौ पृषोदरः । वर्णनाशः वर्णस्याक्षरस्य नाशः । विकारानाशभ्यां कृत्वा धातोरतिशयेनार्थी विशेषेणोत्पद्यते स प्राज्ञैः पण्डितैर्योग इत्युच्यते व मयूरभ्रमरादिषु मयूरः, भ्रमरः इत्यायुदाहरणेष्वित्यर्थः । यथा रुशब्दे (उदाहरणद्वयेऽपि ) एकत्र महीपूर्वः अन्यत्र भ्रमत्पूर्वः मह्यामतिशयेन रौतीति मयूरः । भ्रमन् सन् अतिशयेन रौतीति भ्रमरः । नानि चेति ड: प्रत्ययः । डित्त्वाट्टिलोपः । स्वर० । एकत्र विकारः ही स्थाने यू । अन्यत्र वर्णं नाशः तकारनाशः । मयूरः भ्रमरः इति सिद्धम् । इति विसर्गसन्धिः सम्पूर्णः । अथ विभक्तिर्विभाव्यते । सा द्विधा । स्यादिस्त्वादिश्व । अथेति । अथ सन्धिकथनानन्तरं विभक्तिर्विभाव्यते, कथ्यते । विभज्यन्ते पृथक्क्रियन्ते कर्तृकर्मादयो यया सा विभक्तिः । सा विभक्तिर्द्विधा द्विमकारा । एका स्यादि: ' सि औ जस्' इत्यादिका । अपरा त्यादिः ' तिप तस अन्वि ' इत्यादिका । विभक्तेः प्रयोजनमाह । विभक्त्यन्तं पदम् । तत्र स्यादिर्विभक्तिर्नानो योज्यते । विभक्त्यन्तं पदम् । विभक्तिरन्ते यस्य तद्विभक्त्यन्तं यस्यान्ते विभक्ति -
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy