________________
सारस्वते द्वितीयवृत्ती
अनेन गस्य जः । श्रमजपां• अनेन पूर्वस्य तुक् । नचा० । लुकि सति अनेन वैद्र । जंगमीति । ईंटभावे । नचा० । जंगति । लोपस्त्वनुदात्ततनां० अनेन नकारस्य लोपः । जंगतः । गमां स्वरे । अनेनोपधालोपः । जंग्मति । इत्यादीनि । धातु! ग्रहणोक्तं यङ्लुकि वा भवति । इति केचिदाचार्या वदंति । तेन वा नोपधालोपः । जंगमति । अन्यानि मूलतो ज्ञेयानि । जंगम्पात् | जंगमीतु । जंगतु ।' अजंगमीत् । ई भावे | दिस्योः ।
मो नो धातोः । धातोर्मकारस्य नकारो भवति झसे पदान्तवमयोश्च । जङ्गन्मि जङ्गन्वः जङ्गमः ।
I
मो नो धातोः । अजंगन् । इत्यादीनि रूपाणि सुगमानि । अनेनैव प्रकारेण साध्यानि । लिट्लकारे । कासादि० अनेनाम् । जंगमांचकार । जंगमामास । जंगमबभूव । इत्यादीनि । जंगम्यात् । सिसता० । जंगमिता । जंगमिष्यति । अजंगमिष्यत् । लुक्लकारे । अजंगमीत् । अजंगमिष्टाम् । अजंगमिपुः । इन् हिंसागत्योः। यदलुकि कृते । द्वित्वादिकं सर्वं भवति । कुहोश्वः । झपानां ।
द्विरुक्तस्य हन्तेः कुत्वं वाच्यम् । जङ्घनीति- जङ्घन्ति जङ्घतः जङ्घति जंन्नति । जाहेति - जाहाति जाहीतः जाहति । एवं दाधेत्यादि । दादेति - दादाति दत्तः दादति । दादेतु, दादेयात्, अदादात् । एवं धेट् । दाधेति - दाघाति दाद्धः दाति । दाधेयात्, अदाधासीत्, अदाधात्, अदाधत् ।. धाञ् । दाधाति धत्तः । पितोस्तु | दादेति दादीतः । दादीहि, दादायात्, अदादासीत् । जहातेः पूर्वस्य दीर्घो वेति केचित् । जहाति । इति यङ्लुक्रिया ॥
द्विरुक्तस्य । अजमपाम् । नश्चा० । लुकि सति । जंघनीति । इडभावे । मा० | जंघति । लोपस्त्वनु० । गमांस्वरे । जंनति । जंघन्यात् । जंघनीतु | जं. धंतु । इत्यादीनि । भजंघनीत् । ईडभावे । अजंघत् । अजंघतां । अजंतुः । जं• घनचकार । घनामास । जंघनांबभूव । वधादेशः । आशिषि । वध्यात् । जंघनिता । जंघनिष्यति । अजंघनिष्यत् । वृद्धिनिषेधः । अवधीत् । इत्यादी - नि । ओहाक् त्यागे । यङ्लुकि कृते । द्वित्वादिकं । कुहोलः । ह्रस्वः ।