________________
૪૦
सारस्वते द्वितीयवृत्ती
अतिशयेन कल्पति । यङ् । द्वित्वं । रः । कुहोशुः । रीं । कृपो रोलः । चरीकृ प्यते । चरीकृपांचक्रे । अचरीकृपिष्ट । वश कांतौ । कांतिरिच्छा । यङ् । सूत्रम् । शेर्यङि न संप्रसारणम् । वावश्यते ।
-
वशेः । वशेर्धातोर्यद्धि संप्रसारणं न भवति । द्वित्वं । पूर्वस्य । आतः । वावश्यते । वावशांचक्रे । अवावशिष्ट । सूत्रम् । पद्संसुध्वंसुभ्रं सुदंशुकस्वञ्चुपतस्कन्दां यङि लुकि च सति पूर्वस्य नीगागमो वाच्यः । पनीपद्यते । नो लोपः । स्रंसु. सु अधःपतने । सनीस्त्रस्यते । दनीध्वस्यते । बनीभ्रस्यते । वञ्चु वञ्चने । वनीवच्यते, दनींदस्यते, चनीकस्यते, पनीपत्यते, चनीस्कद्यते । -
1
प० । अनेन नुगागमः अतिशयेन पद्यते । यङ् । द्वित्वं । नीगागमः । कित्त्वादाकाराभावः । पनीपद्यते । पनीपदांचक्रे । अपनीपदिष्ट । संसु ध्वंसु अधः पतने । यङ् । नोलोपः । द्वित्वं । पूर्वस्प नीगागमः । सनीस्रस्यते । सनीस्रसांचक्रे । असनीवसिष्ट | झपानां । अनेन धस्य दः । अन्यत्तु पूर्ववत् । दनीध्वस्यते । दनीध्वसांचक्रे । अदनीध्वसिष्ट । भ्रंसुधातोर्यङ् । द्वित्वम् । पूर्वस्य । झपानाम् । पद० अनेन नीगागमः । नोलोपः । बनीभ्रस्यते । चतुर्णा सुगमानि । लिट् । कासादि० । अनपि च हसात् । बनीनसां - चक्रे । सिसता । बनीनसिषीष्ट । बनीनसिता । लुङ्लकारे । भूते सिः । इट् । प. त्वम् | टुत्वम् । अबनीश्नसिष्ट | वंचु वंचने । अतिशयेन वचति । यङ् । द्वित्वम् । पूर्वस्य नीगागमः । वनीवच्यते । अनेन नोलोपः । इति सूत्रेण नकारलोपः । लिट्लकारे । कासादि ० | वनविचांचक्रे । लुङ्लकारे साधनं तु पूर्ववत् । अवनीवचिष्ट । इत्यादीनि भवंति | देश दशने । अतिशयेन दशति । यङ् । अन्यत्साधनं पूर्ववत् । नीगागमः । नोलोपः । दनीदस्यते । लिट् । कासादि० । दनीदसांचक्रे । लुङ | अदनीदसिष्ट । स्कंदिर् गतिशोषणयोः । अतिशयेन स्कंदति । अतिशये नीगागमः । नौलोपः । कुहोश्चः । चनीस्कद्यते । लिट् । चनीस्कदांचक्रे । लुङ् । अचनीस्कदिष्ट । कस गतौ । अतिशयेन कसति । यङ् । द्वित्वादिकम् । नीगागमः । कुहोश्क्षुः । चनीकस्यते । लिट्लकारे | कासादि० अनेनाम् । अनपिच । चनीकसांचक्रे । लुट् । अचनीकसिष्ट | पत्लृ । पतने । अतिशयेन पतति । यङ् । अन्यत्सुगमम् | नीगागमः। पनपत्यते । लिट् । कासादि० । पनीपतांचकार । लुङ्लकारे | अपनीपतिष्ट । दुरणे | अतिशयेन करोति । अतिशये० अनेन यङ् । सूत्रम् ।