________________
४८८
सारस्वते द्वितीयवृत्ती अमजपां नुक । ममजपां। (प. ब. ) नुक् (म. ए.) प्रमांतस्य धातोश्च जपादीनां धातूनां पूर्वस्य नुगागमो भवति यङि लुकि च सति । अनेन नुक् । उकार उच्चारणार्थः । ककारः कित्कार्यार्थः । कुहोचः । नश्चापदांते । जंगम्यते । अझसेपि अनुस्वारो भवति । नकारस्य आदेशिना अनुस्वारादेशवता नुगागमेन नकारेण आदेशो निर्दिश्यते । जंगमांचके । अजंगमिष्ट । भ्रम चलने । अतिशयेन भ्राम्यति । यङ्मत्ययः । द्वित्वं । पूर्वस्य । झपानां । प्रमजपा वनम्यते । लिट् । बंभ्रमांचक्रे । क्षुङ । अबंभ्रमिष्ट । यम उपरमे । अतिशयेन यच्छतीति । य । द्वित्वं । पूर्वस्य । अमजपा । अझसेऽप्यनुस्वारः । आदेशिना अदेशो निर्दिश्यते । अस्य व्याख्यानं पूर्व कृतम् । अनेन अझसेपि नकारस्य अनुस्वारः । यंयम्यते । यंयमांचके । अयंयमिष्ट । कण शब्दे । अविशयेन कणतीति यत् । द्वित्वं । पूर्वस्य । कुहोचः । अमजपा । नचा। चंकण्यते । चंकणांचके । अचंकणिष्ट । तनु विस्तारे । अतिशयेन तनोति । साधनं तु पूर्ववत् । तंतन्यते । तंतनाचक्रे । अनिष्ट । जप मानसे । गर्हितं जपति । साधनं पूर्ववत् । जंजप्यते । जंजपचक्रे । अजंजपिष्ट । जभ गात्रविनामे | गर्हितं जमति । द्वित्वादिकं पूर्ववत कार्य । जजभ्यते । जंजमांचक्रे । अजंजभिष्ट । दह भस्मीकरणे । गर्हितं दहति । यङ् । द्वित्वादिकं । दंदह्यते । दंदहांचके । अददहिष्ट । दश दशने । गर्हितं द. शति । यङ् । नोलोपः । द्वित्वं । अमजपा नुक् । दंदश्यते । ददशांचके । भंजो आमर्दने । अतिशयेन भनक्ति । यङ् । नोलोपः। द्वित्वं । अमजपा । झपानां । वं. भज्यते । बंभजांचके । अबंभजिष्ट । अतिशयेन पशति । यङ् । द्वित्वं । प्रमजपां। पश बाधनग्रंथनयोः। पंपश्यते । पंपशांचके । अपशिष्ट । चर गतिभक्षणयोः । गर्हितं चरति । यङ् । द्वित्वं । सूत्रम् ।।
चरफलोरुचास्य । अनयोर्यङि लुकि च सति पूर्वस्य नु- . गागमो भवति पूर्वात्परस्य अकारस्य उकारः । चञ्चूर्यते । फल निष्पत्तौ । पम्फुल्यते ।।
चरफलोरुच्चास्य । चरफलोः (प० द्वि०) उत् (प्र० ए० ) व (म० ए०) अस्य (१० ए०) अनयो त्वोर्यडि लुकि चं पूर्वस्य नुगागमो भवति । पूर्वात् परस्य अकारस्य उकारः । अनेन नुक् । पूर्वात्परस्य अकारस्य उकारः । नश्चापदांते । य्वोर्विहसे । चंचूर्यते । चंचूरांचक्रे । अचंचूरिष्ट । फल निष्पत्तौ । अतिशयेन फलति । पङ् । द्वित्वं । चरफलोः । झपानां० [ पंफुल्यते । पंफुलांचक्रे । अपंफुलिष्ट । सूत्रम् ।