________________
.४८६. ।
सारस्वते द्वितीपवृत्ती माननामिनां गुणवृद्धी न वाच्ये । अनेन गुणाभावः । बोभुजाचके । 'सिसता० । षत्वम् । बोभुजिषीष्ट । बोभुजिता । बोभुजिण्यते । दिवादावट् । अबोभुजिष्यत । लुङ्लकारे । भूवे सिः । इट् । षत्वम् । ष्टुत्वम् । अवोभुजिष्ट । अबोभुजिषातां । अबोभुजिषत । इत्यादीनि । मुह वैचित्ये। अतिशये द्वित्वं । गुणः। स धातुः। मोमुहते । चतुणां सुगमानि । लिट्लकारे कासादि० । अनेनाम् । अनपि च हसात् । अनन यो लोपः । मोमुहांचके । सिसता० । मोमुहिषीष्ट । मोमुहिता । मोमुहिष्यते। अमोमुहिण्यत । अमोमुहिष्ट । रूपाणि सुगमानि । लिह आस्वादने । अतिशये अनेन यङ् । अतिशयेन लेढि । लेलिह्यते । लिट् । अनपि च हसात् । लेलिहाचक्रे । सिसता० । लेलिहिषीष्ट । लुङ् । अलेलिहिष्ट । रूपाणि सुगमानि । हुदानादनयोः । अतिशयेन जुहोति । यत् । द्वित्वं । कुहोचः । गुणः । जोहूयते । लिट् । जोहूयांचके । सिसता० । जोहूयिषीष्ट । लुङ् । अजोहुपिष्ट । रूपाणि सुगमानि । विद ज्ञाने। • अतिशयेन वेत्तीति । अतिशये अनेन यङ् । अन्यत्साधनं तु पूर्ववत् । विद्यते । लिट् । वेविदांचके । लुङ् । अवेविदिष्ट । पच्न पचने । पठ व्यक्तायां वाचि । अनपोर्य । सूत्रम् ।
आतः। यडि लुकि च सति पूर्वस्य अकारस्य आकारो भवति अकिति । पापच्यते । पठ व्यक्तायां वाचि । पापम्यते ।
आतः। आ (म० ए०) अतः (१० ए०) यडि लुकि च पूर्वस्य अकारस्य आकारोभवति । अयकि । पापच्यते । अपापविष्ट । पापठ्यते । अपापठिष्ट । रूपाणि सुगमानि । सूत्रम् ।
सूचिसूत्रिमूत्र्यव्यय॑शूर्णोतिभ्यो यङ्वाच्यः। सोसूच्यते, सोसूयते, मोमूत्र्यते । गत्यर्थात्कौटिल्य एव यङ् । स्वरादेः परः । अट गतौ । यङ्सहितस्य द्वित्वम् । अव्य व्य इति स्थिते । पूर्वस्य हसादिः शेषः । आतः । इति पूर्वस्यावम् । कुटिलं अटतीति अटाट्यते, अटाटांचक्रे, अटाटिपीष्ट । व्रज गतौ । कुटिलं व्रजतीति वानज्यते । अश् भोजने अशास्यते । उMञ् आच्छादने । ऊर्णोनूयते । नवराः संयोगादयो द्विर्न । गुणोतिसंयोगायोः । सचिः । सूचि सूनि मूत्रि अटि अत्ति अश् अर्णोति एभ्यो धातुम्यो यह