________________
यद्मक्रिया ।
૪Ğ
1
यङि । यङि सति लुकि च पूर्वस्य नामिनो गुणो भवति । सघातुः । ङित्वादात्मनेपदम् । अप् । अतिशयेन भवतीति बोभूयते, बोभूयेत, बोभूयताम्, अबोभूयत, बोभूयांचक्रे, बोभूयिषीष्ट, बोभूयिता, बोभूयिष्यते, अबोभूयिष्यत, अबोभूयिष्ट, बोभुज्यते ।
यङि । यङि (स. ए.) यदि सति लुकि च सति पूर्वस्य द्विरुक्तसंबंधिनो नामिनो गुणो भवति । अनेन गुणः । झपानां । स धातुः । अनेनास्मिन् प्रकरणे सर्वत्र धातुसंज्ञा कार्या । धातुत्वात् त आदयः प्रत्यया भवंति । अपू कर्त्तरि । अदे | बोभूयते । बोभूयेते । बोभूयंते । इत्यादीनि । बोभूयेत । बोभूयेयातां । बोभूयेरन् । लोट् । बोभूयतां । बोभूयेतां । बोभूयतां । अबोभूयत । अबोभूयेतां । भबोभूयंत 1 लिट् | कासादि० अनेन सूत्रेण सर्वत्राम्प्रत्ययो भवति । अन्यत्साधनं सुगमम् । बोभूयांचक्रे । बोभूयचक्राते । बोभूयांचक्रिरे । सिसता० । यतः । षत्वं । बोभूयिषीष्ट । बोभूपिता । बोभूयिष्यते । दिबादावट् । अबोभूयिष्यत । लुङ्लकारे । भूते सिः । ईट् । षत्वम् | टुत्वं | अबोभूयिष्ट | अवोभूयिषातां । अबोभूयिषत । इत्यादीनि । भुज् पालनाभ्यवहारयोः । अतिशयेन भुनक्ति इति विग्रहे । यङ् । द्वित्वम् । झपानाम् । यति भनेनास्य पूर्वस्य गुणः । बोभुज्यते । बोभुज्येत । बोभुज्यतां । गुणः । अबोभुज्यत । रूपाणि सुगमानि । लिट्लकारे । कासादि० अनेनाम् प्रत्ययः । सूत्रम् ।
अनपि च हसात् । हसादुत्तरस्य यङो लुग्भवति अनपि विषये ।
अनपि च हसात् । अनपि (स० ए० ) च (म० ए० ) हसात् ( पं० ए० ) हसादुत्तरस्य यङ्प्रत्ययस्य लुग् भवति । अनपि विषये । अनेन यो टुक् । अत्र गुणे प्राप्ते सूत्रम् ।
}
धावंशलोपनिमित्ते आर्धधातुके परे तन्निमित्ते समाननामिनां गुणवृद्धी न वाच्ये । बोभुजांचक्रे । मुह वैचित्ये । मोमुह्यते । लिह आस्वादने । लेलिह्यते । हु दानादनयोः । जोहूयते । विद ज्ञाने । वेविद्यते । धात्वंशलोपनिमित्ते आर्धधातुके परे सति तन्निमित्ते स
·