________________
४८४
सारस्वते द्वितीयवृत्ती ज्ञापयिषति । पक्षे । जिज्ञापि स इति स्थिते । सस्य इस तस्य दीर्घता । पूर्वस्य लोपः । । स्कोरायोश्च ।ज्ञीप्सति । ज्ञप ज्ञानज्ञापनयोः । जिज्ञापयिषति । मितां इस्वः। जिज्ञपयिषति । ज्ञीप्सति । इति सप्रक्रिया।
वेडिस्से दीर्घता च । वा (म. ए.) इट् (म. ए.) इस् (म. ए.) से (स. ए.) दीर्घता (म. ए.)च (म.ए.) अस्य सूत्रस्य व्याख्यानं मूल एव कृतम् । साधने यानि सूत्राणि तानि मूले उक्तानि । दीर्घता वा भवति । धीप्सति । धिप्सति । यदा इट् तदा दिदंभिषति । अस्य साधनं तु सुगमम् । लिट्लकारे । दिदभिषांचकार । धीप्सांचकार । धिप्सांचकार | लुङ अदिदभिषीत् । अधीप्सीत् । अविप्सीत् । इत्यादीनि रूपाणि सुगमानि | ज्ञा अवबोधने । आत्मनः ज्ञापयितुमिच्छति । अस्य ऽयंतात् सः । सूत्राणि मूले लिखितानि | जिज्ञापयिषति । लिट्ल कारे । कासादि० । जिज्ञापयिषांचकार । लुङ्लकारे । अजिज्ञापयिषीत् । यदा इड् न भवति । तदापि अस्य साधनं मूले उक्कं । जीप्सति । लिट्लकारे जीप्सांचकार सिसता० । जीप्सिता | लुङ् । अज्ञीप्सीत् । ज्ञप ज्ञानज्ञापनयोः । इच्छायाम् । व्यं तानाम् । अन्यत्साधनं तु मूलतो ज्ञेयम् । जिज्ञपयिषति । लिलकारे। जिज्ञपयिषांचकार । लुङ् । अजिज्ञपयिषीत् । यदा इइ न भवति तदा जीप्सति । लिट्लकारे । कासादि० जीप्सांचकार । लु । अज्ञीप्सीत् । अज्ञीप्सिष्टाम् । अज्ञीप्सिपुः । इत्पा. दीनि रूपाणि भवंति । सुगमत्वात्सर्वाणि न लिखितानि । इति सप्रक्रिया समाप्ता ।
अथ यङ्प्रक्रिया निरूप्यते । अथ यमक्रिया कथ्यते । सूत्रम् । अतिशये हसादेर्या हिश्च । हसादेरेकस्वराद्धातोरतिशयेऽथें यङ् प्रत्ययो भवति तस्मिन्सति धातोर्द्वित्वम् ।
अतिशये हसादेर्यङ् द्विश्च । अतिशये (स. ए.) हसादः (पं.ए.) हस् प्रत्याहार आदिर्यस्य सः । हसादिः । तस्मात् । हसादेः यङ् । (म. ए. ) चक्षव्ययं । द्विः (म. ए.) हस्प्रत्याहारादेर्धातोरतिशयेऽर्थे यङ्मत्ययो भवति । कचिदेकस्वराद्धातोरपि दृश्यते । तेन जाय चकास इत्यादिभ्यो नैकस्वरेभ्यो यमत्ययो न भवति । अतिशयेन भवति इतिविग्रहे अत्र भूधातोरेकस्वरत्वात् इसादित्वात् पङ्प्रत्ययो भवति । ततो द्वित्वम् । डकार आत्मनेपदार्थः । भू भू य इति जाते । सूत्रम् ।