________________
समक्रिया |
૪૨
भवति । अशनायति । अशनायांचकार । लुङ् । अशनापीत् । इत्यादीनि । यदा आनायः प्रत्ययो न भवति तदा इट् । स्वरादेः परः । षत्वम् । अशिशिषति । लिटलकारे । अशिशिषांचकार | लुकूलकारे । स्वरादेः । अशिशिषीत् । इत्यादीनि । तनु विस्तारे । तनितुमिच्छति । इच्छायाम् । अनेन सः प्रत्ययो धातोद्वित्वं च । सिता । यः से । षत्वम् । तितनिषति । तितनिषांचकार । अतितनिषीत् । सूत्रम् । पतनइत्यादिभ्य इवा?
पततनदरिद्राभ्यः से वा इडाच्यः । तितनिषति तितंसति ।
पततनदरिद्राभ्यः । पत तन दरिद्रा एभ्यो धातुभ्यः समत्यये वा इ वाच्यः । तदा । नश्चापदान्ते । तितंसति । लिट्लकारे । तितंसांचकार । यतः । तितंस्यात् । सिसता । तिवंसिता । लुङ्लकारे । अतितंसीत् । सूत्रम् ।
तनेः सेवा दीर्घः । तितांसति, दिदरिद्रिषति, दिदरिद्रासति ॥
तः । तनोतेर्धातोः सप्रत्यये वा दीर्घो भवति । अनेन दीर्घः । तितांसति । तितांसांचकार । यतः । वितांस्यात् । लुकूलकारे । अतितांसीत् । इत्यादीनि । दरिद्रा दुर्गतौ । दरिद्रातुमिच्छति । इच्छायाम् । द्वित्वम् । यः से। सिसवा० । गप् । अनेनाकारस्य लोपः । षत्वम् । दिदरिद्रिषति । पत० अनेनास्ये विकल्पः । दिदरिद्रासति । लिट्लकारे । कासादि० । दिदरिद्रासांचकार । यतः । दिदरिद्रास्यात् । सिसता० । दिदरिद्रासिता । लुङ्लकारे । अदिदरिद्रासीत् । इत्यादीनि । दंभ दंभने । आत्मनो दंभितुमिच्छति ।
वेडिस्से दीर्घता च । दभिज्ञप्योर्धात्वोर्वा इट् भवति स प्रत्यये परे । यदा नेट् तदा किम् । अनयोर्दम्भिज्ञप्योर्धात्वोः सानुस्वारस्य स्वरस्य इस् भवति । इकारस्य दीर्घता । दम्भेरिकार - स्य वा दीर्घता । चकारात्पूर्वस्य लोपः। दम्भ दम्भने । आत्मनः दम्भितुमिच्छति दिदम्भिषति । द्वित्वम् । इस् । आदिजबानाम् । खसे चपा झंसानाम् । स्कोराद्योश्च । वा दीर्घता । धीप्सति-धिप्सति । ज्ञाऽवबोधने । इच्छायामात्मनः सः । द्विश्व | ह्रस्वः । पूर्वस्थ हसादिः शेषः । यस्ते । वा इट् गुणः । णअंय् । स्वरहीनम् । षत्वम् । स धातुः । तिपू । अपू । अट्टे । आत्मनः ज्ञापयितुमिच्छतीति जि