________________
४८२
सारस्वते द्वितीयवृचौं इत्यादीनि । पल्लू पतने । पतितुमिच्छति । इच्छायाम् । इस्से । पित्सति । पिसांचकार । लुङ्लकारे । अपित्सीत् । सूत्रम् । .
पतो वेट् । पित्सति, पिपतिषति । इट्पक्षे इसपूर्वलोपोन अवतः । मीञ् हिंसायाम् । डुमिञ् प्रक्षेपे। मित्सति । माङ्
माने । मेङ् शोधने । मित्सते । राथ् संसिद्धौ । रित्सति । • पतः। पल पतने इत्यस्य धातोर्वा इट् भवति । यः से अनेन पूर्वस्या. कारस्पेकारः । इट्पक्षे इसपूर्वलोपो न भवतः । पिपतिषति । लिट्लकारे । पिपतिषाचकार । लुङ्लकारे । साधनं पूर्ववत् । अपिपतिषीत् । पद् गतौ । पत्तुमिच्छति । इच्छायाम् । इस्से । पित्सते । पित्सांचके। लुङ्लकारे । अपित्सिष्ट । इत्यादीनि । मीहिंसायां । डुमिन् । प्रक्षेपे । अनयोर्धात्वोः समत्यये कृते । इस्से । सस्तोनपि । अनेन सकारस्य तकारः । मित्सति । लिट्लकारे । मित्सांचकार । लुङ्लकारे । साधनं सुगमम् । अमित्सीत् । अमित्सिष्टां । माङ् माने । मेल् शोधने । अनयोर्धात्वोः सपत्यये कृते । इस्से । मित्सते । मित्सांचके । सिसवा । अनेनेट् । मित्सिषीष्ट । लुङ्लकारे । अमित्सिष्ट । इत्यादीनि । राध संसिद्धौ । राडमिच्छति । इच्छायाम् । इस्से । अनेनेस्पूर्वलोपौ भवतः । स्कोरायोश्च । खसे । रित्सति । चतुणी रूपाणि सुगमानि । लिट्लकारे । कासादि० । अनेनाम् । रित्सांचकार । लहूलकारे । दिबादावट । अरित्सीत् । इत्यादीनि । आप्ल व्यायौ । आतुमिच्छति । इ. छायाम् । स्वरादेः । सूत्रम् ।
आप्नोतेरीः। आप्नोतेराकारस्येकारो भवति से परे पूर्वस्य च लोपः । आप्ल व्याप्तौ । ईप्सते ।
आप्नोतरीः । आमोतेः (प. ए.) । (म० ए० ) आप्नोवेर्धातोराकारस्य ईकारो भवति समत्यये परे । पूर्वस्य च लोपो भवति । ईप्सते । लिलकारे । कासादि०। ईप्सांचक्रे । लुङ्लकारे । दिबादावट् । स्वरादेः परः । अइए। एऐऐ। ऐप्सिष्ट। ऐप्सिषातां । ऐप्सिषत । अश् भोजने । अशितुमिच्छति । इच्छायाम् । सूत्रम् ।
अशेरनायो वा। अशेरिच्छायां सस्थाने वा अनायप्रत्ययो भवति । अशनायति । अशिशिषति ।
अशेरनायो वा । अशेः (ष. ए.) अनायः (म. ए.) वा (प्र. ए.) अशेर्धातोरिच्छायां सकारस्य स्थाने वा अनायः प्रत्ययो भवति । तदा धातोद्वित्वं न