________________
पुरादिमकिया। द्विर्भवति । 'नदराः संयोगादयो न द्वि:' इति रेफस्य न द्वित्वम् । आर्चिचत् । कृत संशब्द ।
स्वरादेः परः । नदराः । अनेन रकारस्य द्वित्वनिषेधः । मे। दिबादावट् । स्वरादेः । आर्चिचत् । आर्चिचवाम् । आर्चिचन् । कृत संशब्दे । चुरादेः। सूत्रम् ।
धातोरुपधाया ऋकारस्य ईकारादेशो वाच्यो जिप्रत्यये परे । कीर्वयति, अचिकीर्तत् । गण संख्याने। अकारान्तः। अल्लोपस्य स्थानिवत्त्वान्न वृद्धिः । गणयति ।।
धातोः । धातोरुपधापा ऋकारस्य भिप्रत्यये परें ईरादेशो वाच्यः । वोर्विइसे ' अनेन दीर्घः । कीर्त्तयति । लिट् । कीर्तयांचकार । लुङ। रद्विश्च । इस्वः। फुहोश्चः । दिवादावठ् । अचिकीर्त्तत् । अचिकीर्चताम्। अचिकीर्चन् । गण संख्याने। अयमकारांतः । चुरादेः। यतः। अनेनाकारस्य लोपः। तत्र । अत उपधायाः। अनेन सूत्रेण वृद्ध प्राप्तौ सत्यां 'यादादेशस्तबद्भवति ' इति न्यायेन वृद्धिर्न भवति । उपधायामकाराभावात् । गणयति । चतुर्णा सुगमानि । लिट् । गणयांचकार । लुङ । मेरा द्विश्च । पूर्वस्य । कुहोचः । सूत्रम् ।
अल्लोपिनो नाकार्यम् । अजगणत् । कथगणयोरकार्य . चेति केचित् । अजीगणत् । कथ वाक्यप्रबन्धे । कथयति, अचकथन, अचीकथत् । उन परिहाणे । ऊनयति । जिनिमित्तस्वरादेशो द्वित्वे कर्तव्ये स्थानिवत् । स्वरादेः परः । अर्थङ् याचने । अर्थयते, आथित । संग्राम युद्धे । अससंग्रामत । अन्ध दृष्टयुपघाते। आन्दधत् । अङ्क अङ्ग पदे लक्षणे च । आञ्चकत् । इति चुरादिप्रक्रिया।
अल्लोपिनः । अल्लोपिनो धातोरकार्य न भवति । अङि लधौ । ल. घोर्दीर्घः । आभ्यां सूत्राभ्यामुक्त कार्य न भवति इत्यर्थः। अजगणत् । अजगणताम् । अजगणन् । कथगणयोर्धात्वोरकार्य वा भवतीति केचिदाचार्या वदंति । तन्मते । अजीगणत् । अजीगणताम् । अजीगणन् । कथ वाक्यप्रबंधे । अयमप्यकारांतः । चुरादेः । कथयति । कथयांचकार । कथ्यात् । अल्लोपिनः । अनेनाकार्य न भवति । कुहोचः । अचकथत् । अचकथताम् । अचकथन् । वा भवतीत्युक्तत्वात् भकार्य भवति । साधनं तु पूर्ववत् । अचीकथत् । अचीकथताम् । अचीकथन् ।