________________
क्रयादिप्रक्रिया |
४५७
कोषीत् । अकोषिष्ट । अकोषिषुः । अशू भोजने । तिबादयः । ना क्र्यादेः । अश्नाति । चतुणां लकाराणां रूपाणि सुगमानि । हौ परे । हसादान हौ । अत: । अशान । ललकारे । स्वरादेः । अनेन द्वितीयोऽडागमः । सवर्णे । आश्नत् । लिट्लकारे । द्वित्वादिकं । अत उपधायाः । सवर्णे । भाश । भशतुः । आशुः । आशिथ | अश्यात् । सिसता । अशिता । षत्वं । अशिष्यति । दिबादावट् । स्वरादेः । आशिष्यत् आशीत आशिष्टां आशिषुः । इत्यादीनि । इति परस्मैपदिनो धातवः कथिताः अथात्मनेपदिनः । वृङ् संभक्तौ । वृणीते, वृणीत, वृणीतामू, अवृणीत, वत्रे, वरिषीष्ट - वरीषीष्ट । संयोगाविॠदन्तवृवृ सिस्योरात्मनेपदे इड्डा वाच्यः । वृषीष्ट । उः । अवरिष्ट अवरीष्ट, अवृत । इति क्र्यादिष्वात्मनेपदिप्रक्रिया | इति नाविकरणाः त्रयादयः ।
अथात्मनेपदिनः कथ्यते । वृट् संभक्तौ । उकार आत्मनेपदार्थः । तभादयः प्रत्यया भवंति । नाक्यादेः । ईहले । णत्वं । वृणीते । नातः । घृणाते । घृणते । वृणीत | वृणीतां । अवृणीत । रूपाणि सुगमानि । तेषां कार्यमपि सदृशम् । लिट्लकारे । द्विश्च । रः । ऋरं । वत्रे । वत्राते । वत्रिरे । क्रादित्वानेट् । ववृषे । इत्यादीनि । वृसीष्ट । इति स्थिते । सिसता । गुणः । वरिषीष्ट । ईटो ग्रहां० । वरीषीष्ट । संयोगादि० अनेन सीष्टादौ वेट् । उः । अनेन गुणनिषेधः । वृषीष्ट । वरिता । वरीता । वरिष्यते । वरीष्यते । भवरिष्यत । अवरीष्यत । लुकूलकारे । अवरिष्ट | अवरिषाताम् । अवरिषत । दीर्घे कृते । अवरीष्ट । भवरीषातां । अवरीषत । इडभावपक्षे ।' लोपो ह्रस्वान्झसे ' अनेन झसे परे सेर्लोपः । भवृत । अवृषातां । अवृषत | अवृथाः । इत्यादीनि रूपाणि भवंति । इत्यात्मनेपदिनः कथिताः । इति नाविकरणाः त्रयादयो धातवः ।
अथ चुरादयः । चुर स्तेये । चुरादेः । चुरादेर्गणात् स्वार्थे ञिः प्रत्ययो भवति । उपधाया गुणः । स धातुः । अपगुणायः । चोरयति, चोरयेत्, चोरयतु, अचोरयत्, चोरयाञ्चकार, चोरयाम्बभूव, चोरयामास, चोरयाञ्चक्रे । ञेः । चोर्यात्, चोरयिता, चोरयिष्यति, अचोरयिष्यत् । जेरङ द्विश्व । अङि लौ ह्रस्व उपधायाः । लबोर्दीर्घः । |
**