SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ क्यादिमक्रिया । - ४५५ I अज्यास्यत्, अज्यासीत् । ज्ञा अवबोधने । जाजनिज्ञोः । जानाति, जज्ञौ, ज्ञायात्, ज्ञेयात्, ज्ञाता, अज्ञासीत् । ली श्लेषणे । लीनाति । लीलिङोरात्वं वा । ललौ, लिलाय, लिल्यतुः, लाता-लेता, अलासीत्, अलैषीत् । बन्धू बन्धने । बध्नाति, बबन्ध, भन्त्स्यति, अभान्त्सीत् । मन्थ विलो - डने । मध्नाति । कुष् निष्कर्षे । कुष्णाति, कुषाण, चुकोष, कुष्यात्, कोषिता, अकोषीत् । अश भोजने । अश्नाति, अश्नीयात् । अनातु अनीतात् अनीताम् अनन्तु । अशान, आश, अशिता, आशीत् । इति क्रयादिषु परस्मै - पदिप्रक्रिया || अथ परस्मैपदिनो धातवः कथ्यन्ते । पुष् पुष्टौ । तिबादयः । ना श्रयादेः । णत्वम् । अन्यत्र साधनं तु पूर्वसदृशम् । पुष्णाति । चतुणां रूपाणि सुगमानि । हौ परे पुषाण । अन्यानि सुगमानि । लिट्लकारे । द्विश्च । पूर्वस्य । उपधाया लघोः । पुपोष । पुपुषतुः । पुपुषुः । क्र्यादेर्णादेः । गुणः । पुपोषिथ | पुण्यात् । सिसता । उपधाया लघोः । पोषिता । षत्वं । पोषिष्यति । दिबादाबट् | अ पोषिष्पत् । ललकारे । द्वाविटौ । सेर्लोपः । गुणः । अपोषीत् । अपोषिष्टाम् । अपोषिषुः । इत्यादीनि । मुष् स्तेये । तिबादयः । नात्रयादे । णत्वं । मुष्णाति । युणीयात् । मुष्णातु । हौ परे । मुषाण । अनुष्णात् । रूपाणि सुगमानि । लिट्लकारे । द्विश्व | पूर्वस्य । उपधाया लघोः । मुमोष । भुमुषतुः । मुमुषुः । गुणः । मुमोषिथ । सुष्यात् । सिसता० । गुणः । योषिता । षत्वं । भोषिष्यति । भमोषिष्यत् । कुलकारे । द्वाविटौ । गुणः । सेर्लोपः । अमोषीत् अमोषिष्टाम् अमोषिषुः । त्रृ हिंसायाम् । तिबादयः । नात्र्यादेः । प्वादेर्हस्वः । णत्वम् । शृणाति । शृणीयात् । शृणातु । अशृणात् । लिट्लकारे । द्विश्च । रः । धातोर्नामिनः । शशार । गृसंयोगात् । अनेनाकित्त्वात् गुणः । शशरतुः । शशरुः । शशरिथ । शत इर् । य्वोर्विहसे । शीर्यात् । सिसता । गुणः । शरिता । षत्वं । शरिष्यति । अशरिष्यत् । धातोर्नामि • नः । अशारीत् । अशारिष्टाम् भशारिषुः । ज्या वयोहानौ । तिबादयः । नाक्यादेः । ग्रहां किति च । अनेन संप्रसारणम् । दीर्घस्वरत्वात् । दीर्घः । जीनाति । जीनीतः । जीनन्ति | जीनीयात् । जीनातु । जीनीहि । अजीनाथ अजीनीताम् | अजीनन् । लिट्लकारे । द्विव । णबादौ पूर्वस्य ह्रस्वः । आतो णपू डौ । जिज्यौ । निन्यतुः ।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy