________________
४१४
सारस्वते द्विदीपाची
ताम् । अधोषतः । ग्रह उपादाने । उपादानं ग्रहणम् । तिबादयः । ना क्रचादेः । महा कृिति च । अनेन संप्रसारणं । णत्वं । गृह्णाति । गृह्णीतः । गृह्णन्ति । गृह्णीते । - ह्णीयात् । गृह्णीत | गृह्णातु । गृह्णीतात् । गृह्णीताम् । गृह्णन्तु । ' बहू हि ' इवि स्थिते । सूत्रम् ।
इसादान हौ । हसान्तात्त्रयादेर्गणादानः प्रत्ययो भवति हौ परे । नाप्रत्ययाभावः । गृहाण, अगृह्णात्, जग्राह, जगृहे, गृह्यात् । ईटो ग्रहाम् । इति ई: । ग्रहीषीष्ट यहीता २, ग्रहीष्यति, अग्रहीष्यत्, अग्रहीष्यत, अग्राहीत्, अग्रहीष्ट । इति क्र्यादिषूभयपदिप्रक्रिया |
हसादान हौ । हसात् । ( पं. ए. ) आनः । (प्र. ए. ) हौ । (स. ए. ) हसान्तात् क्रयादेर्गणात् आनः प्रत्ययो भवति हिमत्यये परे । नामत्ययाभावो भवति । अतः । अनेन - हेर्लुक् । संप्रसारणं । गृहाण । अन्यानि सुगमानि । गृहीताम् । अगृह्णात् । भग्रह्णीत | लिट्लकारे । द्विश्व | संप्रसारणं । रः । कुद्दोवः । अत उपधायाः । जग्राह । जगृहतुः । जगृहु: । जगृहे । जगृहाते । जग्गृहिरे । संप्रसारणं । ह्यात् । ग्रह सीष्ट । इति स्थिते । सिसता । ' ईटो ग्रहां० / अनेन दीर्घः । ग्रहीषीष्ट । ग्रहीता २ । ग्रहीष्यति । ग्रहीष्यते । अग्रहीष्यत् । अग्रहीष्यत । एतेषां - पाणि सुगमानि । ललकारे । भत उपधायाः । अनेन वृद्धिः । अन्यत् साधनं सुगमम् । अग्राहीत् । अग्राहिष्टाम् । अग्राहिषुः ' वृद्धिहेतौ ' अनेन अत्र दीर्घाभावः । आत्मनेपदे । अग्रहीष्ट । अग्रहीषाताम् । अग्रहीषत । इत्यादीनि । इत्युभयपदिनः ।
,
1
अथ परस्मैपदिनः । पुष् पुष्टौ । पुष्णाति, पुष्णीयात्, पुष्णातु पुष्णीतात्, पुष्णीताम्, पुष्णन्तु । पुषाण, अपुष्णात्, पुपोष, पुष्यात्, पोषिता, पोषिष्यति, अपोषिष्यत्, अपोषीत् । मुष स्तेये । मुष्णाति, मुमोष, मुष्यात्, मोषिता, मोषिष्यति, अमोषिष्यत, अमोषीत् । शू हिंसायाम् । - शृणाति । शशार शशरतुः शशरुः । शीर्याद, शरिता, शरिष्यति, अशरिष्यत्, अशारीत् । ज्या वयोहानौ । ग्रहादि -- त्वात्संप्रसारणम् । जीनाति, जीनीयात् । जिज्यौ जिज्यतुः जिज्यु: । जिज्यिथ- जिज्याथ । जीयात्, ज्याता, ज्यास्यति,