________________
४५०
.. सारस्ववे द्विवीपाची परिण्यते । अधरिष्यत् । हुलकारे । सेलोपः । अधृत । अषाताम् । अधूषत । प्र व्यापारे । कारः । अन्यत्साधनं तु पूर्वसहशम् । व्यापूर्वोऽयं धातुः व्यामियते । चतुणां रूपाणि मुगमानि । लिट्लकारे । द्वित्वादिकं । व्याप । अन्येषां रूपाणि पूर्वसदृशानि । हुलकारे । सेर्लोपः । व्याहत । व्यापृषातां । व्यापूषत । इत्यादीनि । ओविजी भयचरूनयोः । ईकारौकारावितौ स्वः । तुदादेर । विजते । लिट्लकारे । द्वित्वादिकं । विविजे । विविजाते । विविनिरे । विजू इट् ता इति जाते । तत्र गुणे प्राप्से सूत्रम् । विजेः पर इट् किबक्तव्यः। ततो नोपघागुणः । विजिष्यते, अविजिष्यत, अविजिष्ट । ओलस्जी ब्रीडायाम् । अन्यत्र । सो जः । लज्जते, ललज्जे, अलज्जिष्ट । इति तुदादिष्वास्मनेपदिप्रक्रिया। इति अविकरणास्तुदादयः। इति धातूनामष्टमो गणः॥८॥ विजेः । विजो धातोः पर इट् किद्वक्तव्यः । अनेन गुणनिषेधः । विजिता । पत्वं । विजिष्यते । अविजिष्यत । लङ्लकारे । लुत्वं । अविजिष्ट । अविनिषाताम्। अविजिषत । ओलम्जी बीडायां । द्वावितौ । तुदादेरः । अन्यत्र 'सोजः' अनेन सकारस्य जकारः। लज्जते । चतुर्णा लकाराणां सुगमानि । लिट्लकारे द्वित्वादिकम् । ललज्जे । इत्यादीनि । लजिपीष्ट । लज्जिता । लज्जिष्यते । अलज्जिण्यत । अलज्जिष्ट । अलज्जिषातां । अलज्जिषत । इत्यादीनि । इत्यात्मनेपदिनः कथिताः। इति अविकरणास्तुदादयो धातवः कथिताः ।
अथ ज्यादयः। तत्रादावुभयपदिनः। डुक्री द्रव्यविनिमये। ना क्रयादेः । क्रयादेर्गणाना प्रत्ययो भवति चतुर्यु परेषु । अपोऽपवादः । णत्वम् । क्रीणाति ।
अथ क्रयादयो धातवः कथ्यन्ते । तत्रादावुभयपदिनो धातवः सन्ति । हुक्रीञ् द्रव्यविनिमये । द्रव्यपरावर्त्तने । वस्तूनां मौल्येन ग्रहणे इत्यर्थः । दुकारा. कारावनुबन्धौ । हुकारो द्वितखिमक् इति कार्यार्थः । प्रकारानुबन्धत्वादुभयपदी । तिबादयः प्रत्ययाः । क्री विप् इति स्थिवे सूत्रम् । नात्रयादेः । ना । सांके० (प्र० ए०) यादेः। (पं० ए०) यादेर्गणात् नापत्ययो भवति चतुर्दा तिबादिषु परेषु । अनेन नापत्ययः । णत्वम् । क्रीणादि ।' की ना तस्' इति जावे। सूत्रम् ।