________________
विसर्गसधिक्रिया ॥५॥
अतोऽत्युः। । अकारात्परस्य विसर्जनीयस्य उकारो भवति अति परतः। एदोतोऽतः । का+अर्थः कोऽर्थः ।
अतोऽत्युः । अत् (पं. ए.) स्वर० । स्रो० । अतः । अग्रे अत् (स.ए.) स्वर० मध्ये अतोऽत्युः उओ । एदोतोतः । अग्रे उ (म. ए.) स्रो। पश्चाद इयं स्वरे । स्वर० । सिद्धम् । चिः प्रसिद्धा । अति परत: अकारे परे इत्यर्थः। तपरकरणं तावन्मात्रग्रहणार्थमुभयत्रापि सवर्णनिषेधार्थम् । उदाहरणम् । का +अर्थः । अनेन उकारः। उ ओ । एदोतोतः। कोऽर्थः। सूत्रम् ।
हबे। अकारात्परस्य विसर्जनीयस्य उकारो भवति हबे परे। का+गतः को गतः। देव+याति देवो याति।मनः+रथः मनोरथः।
हबे। हबे (स. ए.) चिः सुकरा । उदाहरणम् । का+गतः। अत्र अका. रात्परस्य विसर्जनीयस्य हो परे उकारः । ततः। उ ओ । देव+याति । हो। उः। सिद्धम् । देवो याति । मनः रथः । हबे । उ ओ इति मनोरथः । सूत्रम् ।
आदबे लोपश् । अवर्णात्परस्य विसर्जनीयस्य लोपश्भवत्यबे परे । देवाः +अत्र । देवा अत्र । वाता+वाता। वाता वाताः।
आदबे लोपश् । म (पं. ए. ) सिरत् । सवर्गे । आत् । अत्र (स. ए.) अइए । लोपर ( म. ए.) हसेपः । पूर्व चपा० । यदि वा अश्च आश्च आ (पं. ए.) अस । नपुंसकस्य इति हवः । उसिरत् । अवर्णात् अकाराकार रूपात् उचरस्य सिर्जनीयस्य लोपश् भवति अबे परे । उदाहरणम् । देवाः +अत्र । वाता+वाताः । उभयत्रापि विसर्गलोपः। पुनर्विशेषमाह ।
स्वरे यवं वा। अवर्णात्परस्य विसर्जनीयस्य यत्वं वा भवति स्वरे परे । देवा+अत्र । देवायत्र । देवा अत्र।