________________
(४०)
सारस्वते मथमवृत्तौ । पातात् साधवः सिद्धा एव ज्ञेयाः यथा वाचस्पतिः भास्करः, श्रेयस्कर, श्रेयस्का मा, अयस्कान्तः, अयस्कुम्भः अयस्पात्रं, दिवस्पतिः, नमस्कारः, अहस्कारः, उपर्बुधः, वृहस्पतिः, तस्करः । शास्त्रान्तरे वित्थं दृश्यते । प्रक्रियाकौमुद्या 'तबृहतोः करपत्योश्चौरदैवतयोः सुडागमस्तलोपश्च, । तत्+करः । अनेन 'स आगमः। लोपः तस्करः । बृहत पतिः। सकारागमः/तकारलोपः। बृहस्पतिः। चकारात् हरिश्चन्द्रः, मस्करः, मस्करी, कांस्कान, कस्कः, अश्वत्था, कपित्थः । दपित्यादिषु चाधातोः सस्य तः। पारस्पत् वृक्षविशेषः, प्रायश्चित्तं वनस्पतिः, किष्किन्धा, इत्यादयः साधवः सिद्धा एव ज्ञेयाः । यल्लक्षणेनॊपपन्नं दृष्टं च महाग्रन्थे तत्सर्व निपातात्सिद्धमिति । सूत्रम् ।।
अन्होरो रात्रिषु । अन्ही विसर्जनीयस्य पदान्ते रों भवति राज्यादिवर्जितेषु परतः। अहः+पतिः अहर्पतिः। अहः+गणः।अहर्गणः। अहः अत्र। अहरत्र । अरात्रिष्विति विशेषणादहोरात्रम् । अहः+रूपं । अहोरूपम् । अहः+रथन्तरं अहोरथन्तरम् । रूपरात्रिरथन्तरेषु न रेफ इत्यादि।
अन्हो रो रात्रिषु । अहन् ( ष.ए.)अल्लोप: स्वरे । स्वर० । अन्हः अग्रेरः। हबे० उओ (प्र. ए.) स्रो० ।। अग्ने अरात्रि । अतोत्युः । उओ । एदोतोतः । न रात्रयः अरात्रयस्तेषु अरात्रिषु ( स. ब.) अहन्शब्दसम्बन्धिनो विसर्ज. नीयस्य पदान्ते रो भवति । राज्यादिवर्जितेषु शब्देषु परेषु सत्सु रकारादिरात्रिरूपरथन्तरादिवर्जितेष्वित्यर्थः । उदा० । अहन+पतिः अहन्+गणः । 'अन्हः'स इति सूत्रेण उभयत्रापि नस्य सः। स्रो। अनेन सूत्रेण विसर्गस्य ः। राध पोद्विः। जलतुं० । अन्हः पतिः । अहपतिः। अन्हां+गणः अहम्गणः । अत्रान्त वैतिनी विगक्तिमाश्रित्य पदान्तत्वं प्राचं अरांत्रिविवि विशेषणात् । रात्र्या दि वर्जन किम् । अहन्-रात्रम् । ' अन्ह' इति नस्य सः। अरात्रिष्विति रत्वनिषेधः। ततः। हबे । उ ओ। अहोरात्रम् । एवं अहोरूपं, अहोरथन्तरं, अन्हि रथन्तरं अहोरथन्तरं । पदान्त इति किम् | अहोभ्याम् । सूत्रम् ।। १ कुम्वोः कः पौ वा इत्यस्य प्राप्तावपि विसर्ननीयस्य सकार एव निपायते । २ लक्षणसूत्रमंतरेण लोकमसिद्धरूपोचारणं निपातनामिति । ३ प्रशस्तमहो अहोरुपम् ॥