SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ ४४४ सारस्वते द्वितीयवृत्ती ता | कर्त्तिष्यति । अकर्त्तिष्यत् । लुङ्लकारे । द्वाविटौ । सेर्लोपः । उपधाया लघोः। अकर्त्तीत् । अकर्त्तिष्टां । अकर्त्तिषुः । लुम् विमोहने । तुदादेरः । लुभति । लुभेत् । लुभतु | अलभत् । लिट्लकारे । द्वित्वादिकं० । उपधाया लघोः । लुलोभ । लुलभतुः । लुलुभुः । लुभ्यात् । इषुसह० । लोभिता । इडभावे गुणः । तथोर्घः । झबेनबाः । लब्धा । लोब्धारौ । लोब्धारः । लोभिष्यति । अलोभिष्यत् । ललकारे । द्वाविटौ । उपधाया लघोः। अलोभीत् । अलोभिष्टाम् । अलोभिषुः । चृति हिंसाग्रन्थनयोः । ईकार इत् । तुदादेरः । चृतति । चृतेत् । चृततु । अनृतत् । लिट्लकारे । द्विश्च । पूर्वस्य रः । उपधाया लघोः । चचर्च । चचृततुः । चनृतुः । नृत्यात् । सिसता० । गुणः । चर्त्तिता । नृत् । वृद् । अनेन स्यपि वा इट् । चर्त्तिष्यति । चस्स्र्पति । अचर्त्तिष्यत् । अचर्च्छत् । लुट्लकारे । द्वाविटौ । अचचत् । अवर्तिष्टाम् | अचर्तिषुः । विध विधाने । तुदादेरः। विधति । चतुणां सुगमानि । लिट्लकारे । द्वित्वादिकं । गुणः । विवेध | विविधतुः । विविधुः । विध्यात् । सिसता० । गुणः । dfear | वेधिष्यति । अवेधिष्यत् । लुङ्लकारे । द्वाविटौ । गुणः । सेर्लोपः । अलोभीत् । अलोभिष्टाम् । अलोभिषुः । इत्यादीनि । कुट कौटिल्ये । अकार इत् । तुवादेरः । कुठति । चतुणी रूपाणि सुगमानि । लिट्लकारे । द्विश्व पूर्वस्य । कुहोश्चः । उपधाया लघोः । चुकोट । चुकुटतुः । चकुटुः । ' चुकुट् इट् थप् इति जाते । उपधाया लघोः । अनेन गुणे प्राप्ते । सूत्रम् । कुटादेर्जिणद्वर्जः प्रत्ययो ङिद्वत् 1 चुंकोट चुकु टिथ कुटिता अकुटीत् । त्रुट् छेदने । त्रुट्यति त्रुटति । ओत्रश्चू छेदने । ओऊ इतौ । ग्रहां किति च । वृश्वति । वव्रश्च ववृश्वतुः ववृश्चुः । वत्रश्विथ वत्रष्ठ वृश्वयात् । ऊदितो वा । व्रश्विता व्रष्टा । स्कोराद्योश्व प्रविष्यति व्रक्ष्यति अब्रवीद अनाक्षीत् अनाष्टाम् । कृ विक्षेपे । ऋत इर् । किरति चकार चकरतुः कीर्यात् करिता । ईटो ग्रहाम् । करीता क. रष्यति - करिष्यति अकरीष्यत् अकरिष्यत् अकारीत् । कुटादेः । कुटादेर्धातोर्डिंगद्वर्जः प्रत्ययो ङिद्वत् । ङिश्वागुणाभावः । चुकुटि थ । ट्यत् । कुटादेः । अनेन हिन्वागुणो न भवति । कुटिता । कुठिष्यति । अकुटियत् । शेषाणि रूपाणि सुगमानि । लुङ्लकारे । द्वाविटौ । गुणाभावः । अकुटीत् । अकुटिष्टां । अकुटिषुः । इत्यादीनि । त्रुट् छेदने । क्रमुभ्रमु० अनेनास्प
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy