________________
तनादिप्रक्रिया। अक्षणिष्यत । हयन्तक्षणति० न वृद्धिः। अक्षणीत् । अ-. क्षणिष्ट-अक्षत । अक्षयाः । अक्षणिष्ठाः। .
तनादेः। अकरोतेस्तनादेस्तन्थासोः परयोः सेोपोवाच्यः । अनेन वा से.. लोपः । लोपस्त्वनुदात्त अनेन नकारस्य लोपः। अतत । अतनिषाताम् । अतनिषत । सेलोपः । नकारस्य लोपः । अतथाः। अतनिष्ठाः । अन्यानि सुगमानि क्षणु । सिणु। हिंसायां । पूर्ववत् प्रत्यया भवन्ति । तनादेरुप । नूपः । णत्वं । क्षणोति । क्षणुतः । क्षवंति । क्षगुते । क्षणुयात् । क्षण्वीत । क्षणोतु । क्षणुतां । अक्षणोत् । अक्षणुत । लिट्लकारे । द्विश्च । पूर्वस्य । कुहोचः । अत उपधायाः। चक्षाण । चक्षणतुः । चक्षणुः । चक्षणे | चक्षणाते । चक्षणिरे । क्षण्यात । सिसता० । षत्वं । क्षणिषीष्ट । क्षणिवा । क्षणिता। अन्येषां मूलात् ज्ञेयानि । लुल्लकारे । द्वाविद्यौ । सेणित्त्वात् अत उपधायाः । अनेन वृद्धौ मासायां हयन्तक्षण । अनेन तनिषेधः । अक्षणीत अन्यानि सुगमानि । आत्मनेपदे । अक्षणिष्ट । तनादेः । अनेन वा सेलोपः । लोपस्त्वनुदाच० । अक्षत | अक्षणिषातां । अक्षणिषत । अक्षणिष्ठाः । वा सेर्लोपः । अक्षथाः । इत्यादीनि । क्षिणुधातोरूपाणि कथ्यन्ते । प्रत्ययादयः पूर्ववत् । तनादेरुए । सूत्रम् ।
तनादेरुपधाया गुणो वा पिति । क्षिणोति क्षेणोति अक्षेणीद अक्षित-अक्षणिष्ट । षणु दाने । सेने सायात् सन्यात् असात-असनिष्ठ असाथा:-असनिष्ठाः । डुक करणे । डुबावितौ । गुणः । नूपः । करोति ।
तनादेः । तनादे_तोरुपधाया गुणो वा भवति पिति प्रत्यये परे । क्षिणोति । क्षेणोति । क्षिणुते | क्षिणुयात् । क्षिण्वी । क्षिणोतु । क्षेणोतु । क्षिणुताम्। अक्षिणोत् । अक्षणोत् । अक्षिणुत । अन्यानि रूपाणि सुगमानि । लिट्लकारे उपधाया लघोः । चिक्षेण । चिक्षिणतुः । चिक्षिणुः । चिक्षिणे । चिक्षिणाते । चिक्षिणिरे इत्यादीनि । क्षिण्यात् । सिसता० । क्षेणिषीष्ट । क्षेणिता । क्षेणिता । लुरलकारे । अक्षेणीद । आत्मनेपदे । अक्षेणिष्ट । अक्षेत । इत्यादीनि । षणु दाने । पूर्ववच प्रत्ययाः । तनादेरुप् । आदेः ष्णः नः । नृपः । सनोति । सनुवः । सनुते । सनुयात् । सन्वीत । सनोतु । हौ परे । सनु । सनुतां । असनोत् । असनुत । रूपाणि सुगमानि । लिट्लकारे । द्वित्वादिकं । वृद्धिः। ससान | लोपः पचा० । सेनतुः। सेनुः । सेने । सेनाते । सेनिरे । सन् यान् इति स्थिते । जनखनसनां अनेन वा आकारो भवति । सायात् । सन्पात् । सिसता० । सनिषीष्ट । सनिता । सनिता ।