SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ ४३६ सारस्वते द्वितीयवृत्ती सता । अनेनेट् । इन्धिषीष्ट । इन्धिता । इन्धिष्यते । द्वावमागमो-| अइए । एऐऐ ऐन्धिण्यत । लुङ्लकारे । ऐन्धिष्ट । ऐन्धिषातां । ऐन्धिषत । इत्यात्मनेपदिक्रिया समाप्तिमगमत् । इति नविकरणा रुधादयो धातवः कथिताः। ॥ अथ तनादयः ॥ सर्वे उभयपदिनः । तनु विस्तारे। .. तनादेरुप् । तनादेगणादुप् प्रत्ययो भवति चतुर्युः परेषु । अपोऽपवादः । नूपः । तनोति, तनुते, तनुयान्, तन्वीत, तनोतु, तनुताम्, अतनोत्, अतनुत । ततान तेनतुः तेनुः। तेने, तन्यात्, तनिषीष्ट, तनिता २, तनिष्यति, तनिष्यते, - . अतनिष्यत्, अतनिष्यत, अतानीत्-अतनीत्, अतनिष्ट । अथ तनादयो धातवः कथ्यन्ते । तनादयः सर्वे उभयपदिनः सन्ति । तनु विस्तारे तिबादयः तादयश्च प्रत्यया भवन्ति । सूत्रम् । तनादे रुप् । तनादेः (पं० ए०) उप (प्र. ए.) तनादेर्गणात् चतुर्यु लकारेषु परेषु उपप्रत्ययो भवति । अपोऽपवादः । अनेन उप् । तनु तिम् । इति जाते । नूपः । अनेन गुणः । तनोति । तनुतः । नुधातोः । तन्वन्ति । तनोषि । तनुथः । तनुथ । तनोमि । ओर्वमोर्वा लोपः । तनुवः । तन्वः । तनुमः । तन्मः | तनुते । तन्वाते । आतोन्तोदनतः । तन्वते । इत्यादीनि । तनुयात् । नुधातोः । तन्वीत । तनोतु । हौ परे । ओर्वाहेः । तनु । तनुतां । तन्वातां । तन्वतां । तनुष्व | अन्यानि सुगमानि । दिबादावट । अतनोत् । अतनुताम् । अतन्वन् । आत्मनेपदे । अतनुत । इ. त्यादीनि रूपाणि ज्ञातव्यानि । लिट्लकारे । द्विश्च । पूर्वस्य । अत उपधापाः । तवान । लोपः पर्चा । तेनतुः । तेनुः । अत्त्वतः । तेनिथ । ततन्थ । इत्यादीनि । आत्मनेपदे । तेने । तेनाते । तेनिरे । अन्यानि सुगमानि । तन्यात् । सिसताः। षत्वं । तनिषीष्ट । तनिता । वनिता । लुङ्लकारे । णित्पे । अनेन णित्वात् वृद्धिः। अन्यत्साधनं सुगमम् । अतानीत् । अवानिष्टाम् । अतानिषुः । आत्मनेपदे । अतनिष्ट । सूत्रम् ।.. तनादेरकरोतेस्तन्थासोर्वा सिलोपो वाच्यः। लोपस्त्वनुदात्ततनाम् । अतत अतथाः अतनिष्ठाः । क्षणु क्षिणु . हिंसायाम् । क्षणोति क्षणुते क्षणुयात् क्षण्वीत क्षणोतु क्षणुताम् अक्षणोत् अक्षणुत । चक्षाण, चक्षणे, क्षण्याव; क्षणिषीष्ट, क्षणिता २, क्षणिष्यति, क्षणिष्यते, अक्षणिष्यव,
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy