SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ स्वादिक्रिया । धिन्विकृण्व्योर्नो लोपो वाच्यः । चतुर्षु । घिन्विकृण्व्यो० । अनयोर्नकारस्य लोपो वाच्यः । चतुर्षु परेषु । अनेन नकारस्य लोपः । सूत्रम् | यवयोर्वसे हकारे च लोपः । धिनोति, धिनुयात्, धिनोतु, अधिनात्, दिधिन्व, धिन्व्यात्, धिन्विता, धिन्विष्यति, अधिन्विष्यत् अधिवीत् । कृषि हिंसायाम् । कृणोति, चकृण्व | धिनोतिवत् । श्रु श्रवणे । O यवयोः । यकारवकारयोर्वसे हकारे च लोपो भवति । नूपः। धिनोति । धिनुतः । धिन्वन्ति । इत्यादीनि । लिट्लकारे । द्वित्वं । पूर्वस्य । झानां । दिधिन्व | दिधिन्वतुः । दिधिन्वुः । दिधिन्विथ । इत्यादीनि भवन्ति । सिसता० अनेंनंट् । धिन्विता । अन्येषां रूपाणि सुगमानि । लुङ्लकारे । द्वाविटौ । अन्यत्साधनं तु पूर्ववत् । अधिन्वीत् | अधिन्विष्टाम् | अधिन्विषुः । इत्यादीनि । कृवि हिंसायाम् । सर्वसाधनं तु पूर्ववत् । णत्वं । कृणोति । अयं धातुर्धिनोतिवत् ज्ञातव्यः । श्रु श्रवणे । तिबादयः । स्वादेर्नुः । सूत्रम् । ४२९ श्रुवः शृ । श्रुवः शृ भवति चतुर्षु परेषु । शृणोति, शुश्राव, शुश्रोथ, श्रूयाद, श्रोता, श्रोष्यति, अश्रोष्यत्, अश्रौषीत् ॥ इति स्वादिषु परस्मैपदिप्रक्रिया ॥ श्रुवः । शृवः । ( ष० ए० ) शू (म. ए. ) सांकेतिकं । द्विपदं सूत्रम् । श्रुवो धातोः शृ इत्यादेशो भवति चतुर्षु परेषु । अनेन श्रुत्रः शृ । णत्वं । शृगोति । शृणुतः । शृण्वन्ति । इत्यादीनि भवन्ति । चतुर्णां रूपाणि सुगमानि । लिट्लकारे द्वित्वादिकं पूर्वस्य धातोर्नामिनः । अनेन वृद्धिः । शुश्राव । शुश्रुवतुः । शुश्रुवुः । इत्यादीनि भवन्ति । ये । श्रूयात् । गुणः । श्रोता । श्रोष्यति अत्र षत्वं भवति । अश्रोष्यत् । रूपाणि सुगमन । लुङ्लकारे । अनिटो नामिवतः । अनेन वृद्धिः । अन्पत्साधनं तु सुगमम् | अश्रौषीत् । मश्रौषिष्टाम् । अश्रौषीः इत्यादीनि रूपाणि भवन्ति इति परस्मैपदिप्रक्रिया समाप्ता । ॥ अथात्मनेपदिनः ॥ ॥ अनुङ् व्याप्तौ । ऊङावितौ । अश्नुते, अनुवीत, अद्भुताम्, आश्नुत । नुगशाम् । आवोर्णादौ । आनशे । ऊदितो वा । अशिषीष्ट अक्षीष्ट अ I
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy