________________
४३० ।
सारस्वते द्वितीयवृत्ती शिता-अष्टा, अशिष्यते-अक्ष्यते, आशिष्यत-आक्ष्यत । • आशिष्ट-आष्ट आक्षाताम् आक्षत ॥ ॥ इतिस्वादिष्वात्म
नेपदिप्रक्रिया ॥ इति नुविकरणाः स्वादयः ॥ .
अथात्मनेपदिप्रक्रिया कथ्यते । अगू व्याप्तौ जावितौ स्तः । तिबादयः । स्वादेर्नुः । अश्नुते । अश्नुवाते । आतोन्तो० । अश्नुवते । इत्यादीनि ।
नुवीत । अश्नुवीयावां अश्नुवीरन् । अश्नुताम् | अश्नुवाताम् । अनवताम् । स्वरादित्वाद् द्वावडागमौ भवतः । आश्नुत । अन्यानि सुगमानि । लिट्लकारे। द्वित्वादिकं सर्वम् । नुगशा० आभ्वोर्णादौ । आनशे । आनशाते।आनशिरे । इत्यादीनि - अदितो वा अनेनास्य धातोरिविकल्पो भवति । अशिषीष्ट इडभावे छशष०ा । नेन षत्वम् । षढोः कः से । षत्वम् । कषसंयोगे० । अक्षीष्ट । रूपाणि सुगमानि । अन्यानि मूलात् जयानि । लुङ्लकारे । द्वावडागमी स्वरादित्वात् । आशिष्ट । आशिषाताम् । आशिषत । इडभावे झसात् छशष० । ष्टुत्वं | आष्ट | आशातां । आक्षव । इत्यादीनि । इत्यात्मनेपदिप्रक्रिया समाधिमगमत् । इति नुविकरणाः स्वादयो धातवः कथिताः।
अथ रुधादयः । तत्रादावुभयपदिनः । रुधिरावरणे। इरित् ।
अथ रुधादयो धातवः कथयन्ते । तत्रादावुभयपदिनो धातवः सन्ति । रुधिर् आवरणे । इरित् । उभयपदित्वात् । विबादयस्तादयश्च प्रत्यया भवन्ति । सूत्रम् ।
रुधादेनम् । रुघादेर्गणान्नम् प्रत्ययो भवति चतुर्षु परेषु । अपोऽपवादः । मकारः स्थाननियमार्थः । णत्वम् । तथोधः । रुणद्वि । नमसोऽस्य ।
रुधादर्नम् । रुध् आदिर्यस्य स रुधादिः तस्य रुधादेः (पं० ए०) नम् (१० ए०) रुधादेर्गणान्नमत्ययो भवति चतुर्दा लकारेषु परेषु । अपोऽपवादः । प्रत्यये मकार स्थाननियमार्थः । पूनों णोनंते अनेन णत्वं च । तथोधः । अनेन तकारस्य धकार' । झबेजबाः । रुणद्धि । रुथ् तस् इति जाते । नमसोऽस्य । अनेन अकारस्य लोपः। तथोधः।।
हसात् झसस्य सवर्णे झसे लोपो वाच्यः । रुन्धः रुन्धति । रुणत्ति रुन्धः रुन्ध । रुणध्मि रुन्ध्वः रुन्धमः । रुन्धे रुन्धाते रुन्धते । रुन्ध्यात्, रुन्धीत, रुणझुं, रुन्धाम, अरु