SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ ४२४ । सारस्वते द्वितीयवृत्ती मनाह । लोपः पचाम् । अनेनत्वपूर्वलोपौ । नेहतुः । नहुः। नेहिय । अत्वतो० । ननह थप् इति जाते । नहो धः । तथोधः। झबे जबा' । नन । नेहे । नेहाते । नेहिरे । नह्यात् । नह सीष्ट इति स्थिते । नहो धः । खसे चपा० । नत्सीष्ट। नहता। नहो धः । तथोधः । झबे जबाः । नद्धा । नहो धः । खसे० । नत्स्यति । नत्स्यते । इत्यादीनि । लुलकारे । अत उपधायाः । अनात्सीत् । 'झसात् ' अनेन सेर्लोपो भवति । अनाद्धाम । अनात्सुः । इत्यादीनि । आत्मनेपदे । अनद्ध । अनत्साताम् । अनत्सत । इत्यादीनि । इत्युभयपदिपक्रिया समाप्ता । इति यविकरणा दिवादयो धातवः कथिताः। ॥ अथ स्वादयः ॥ तत्रादावुभयपदिनः । पुञ् अभिषवे । ज उभयपदार्थः । आदेः ष्णः नः। अथ स्वादयो धातवः कथ्यन्ते । तत्रादौ उभयपदिनः सन्ति । घुम् अभिषवे । भकार उभयपदार्थः । आदेः ष्णः स्नः। तिबादयस्तआदपश्च प्र. त्ययाः सर्वत्र भवन्ति इति ज्ञातव्यम् । सूत्रम् । स्वादेर्नुः । स्वादेर्गणान्नुः प्रत्ययो भवति चतुर्पु परेषु । अ- . पोऽपवादः। स्वादेर्नुः । स्वादेः (पं. ए. ) नुः । (प्र. ए. ) द्विपदं सूत्रम् । स्वादेर्ग: णात् । चतुर्षु तिबादिषु परेषु नुसत्ययो भवति सु नु तिम् इति जाते । सूत्रम् । नृपः। विकरणस्य नुप्रत्ययस्य उपप्रत्ययस्य च गुणो भवति पिति परे । सुनोति सुनुतः । नु धातोः । सुन्वन्ति । सुनोषि सुनुथः सुनुथ । सुनोमि । नूपः । नुश्च उप् च । नूप् । तस्य । नूपः (१० ए०)। स्वादेरुत्पन्नस्य नुमत्ययस्य । तनादरुत्पन्नस्य । नुप्मत्ययस्य पिति प्रत्यये परे गुणो भवति । अनेन गुणः । मुनोति । सुनुतः । नुधातोः । सुन्वन्ति । षत्वं । सुनोपि । सुनुधः । - सुनुथ । नूपः । अनेन गुणः । सुनोमि । सुनुवस इति जाते । सूत्रम् । उर्वमोर्वा लोपः। असंयोगादुत्तरस्य प्रत्ययसंबन्धिन उकारस्य वा लोपो भवति वमोः परयोः । सुनुवा-सुन्वः सुनुमःसुन्मः । सुनुते सुन्वाते सुन्वते । सुनुयात्, सुन्वीत, सुनोतुसुनुतात् । सुनुताम्, सुन्वन्तु ।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy