________________
दिवादिमक्रिया।
४२१ अस्यते थुग्वक्तव्यः । आस्थत् । इति दिवादिषु परस्मैपदिप्रक्रिया ॥
अस्यतेः । अस्यतेर्धातोर्डप्रत्यये परे थुग् वक्तव्यः । उकार उच्चा० । ककारः किंतू । आस्थत् आस्थताम् आस्थन् । इत्यादीनि । इति परस्मैपदिपक्रिया समासिमगमत् ॥
अथात्मनेपदिनः । जनी प्रादुर्भावे । ईकारत् ।
अथात्मनेपदिप्रक्रिया कथ्यते । जनी प्रादुर्भावे । ईकार इत् । वादयः प्रत्ययाः सर्वत्र भवन्ति । दिवादेः 'जन् य तिम्' इति जाते सूत्रम् ।
जाजनीज्ञो। जनी प्रादुर्भावे । ज्ञा अवबोधने । अनयोर्जादेशो भवति चतुर्षु परेषु । जायते, जायेत, जायताम्, अ. जायत.। गमां स्वरे । श्रुत्वम् । जञोः । जने, ननिषीष्ट, जनिता, जनिष्यते, अजनिष्यत-अजनिष्ट ।
जाजनीज्ञोः । जा ( म० ए०) जनीज्ञोः (प.द्वि.)। जनी प्रादुर्भावे । ज्ञा अवबोधने । अनयोर्धात्वोर्जा इत्यादेशो भवति चतुर्षु लकारेषु परेषु । अनेन जा इत्यादेशः । जापते । चतुर्णा रूपाणि सुगमानि । लिट्लकारे । द्वित्वं । सस्वरादिः । हस्वः । गमां स्वरे । अनेनोपधाया लोपो भवति । श्रुत्वं । जनोः । जज्ञे । जज्ञाते । जज्ञिरे। इत्यादीनि । सिसवा षत्वं । जनिषीष्ट । जनिता । लुङ्लकारे। भूते सिः । सिसता० । षत्वं । ष्टुत्वं । अजनिष्ट । सूत्रम् ।
पदादेस्तनि कर्तर्यपि सेरिण वक्तव्यः दीपादिभ्यो वा । पद दीप जन बुध पूरि तायि प्यायि एते पदादयः।
पदादेः। पदादेर्धातोस्तनि परे सति कर्वरि अपि सेरिण वक्तव्यः । दीपादिम्यो धातुभ्यो वा भवति । पद् दीप बुध् पूरि तापि प्यायि एते पदादयो ज्ञात. व्याः । सूत्रम् ।
लोपः । इण्संयोगे तनो लोपो भवति । जनिवध्योर्न वृद्धिः । अजनि अजनिषाताम् । दीपी दीप्तौ । दीप्यते, दीप्येत, दीप्यताम्, अदीप्यत, दिदीपे, दीपिषीष्ट, दीपिता, दीपिष्यते, अदीपिष्यत, अदीपिष्ट, अदीपि । पूरी आप्या