SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ ४२० सारस्वते द्वितीयवृत्ती च । शाम्यति, शाम्येत्, शाम्यतु, अशाम्यत् । शशाम शेमतुः शेमुः । शम्यात्, शमिता, शमिष्यति, अशमिष्यत् । लित्पुषादेर्डः । अशमत् । अशमीदिति केचित् । दम् श्रम तम् भ्रम् क्षम् क्रम् मद् एते शमादयः । रूपं तद्वत् । जि मिदा स्नेहने । आजी इतौ। शमाम् । (ष ब.) दीर्घः (म. ए. ) शमादीनां धातूनां यप्रत्यये परे अबादौ विषये दीर्घो भवति । अनेन दीर्घः । शाम्पति । चतुर्णा रूपाणि सुगमानि । लिट्लकारे द्वित्वं । पूर्वस्य । अत उपधायाः । शशाम ।' शशाम वृष्टयापि विना दवामिः' इत्युदाहरणम् । लोपः पचां० । शेमतुः । शेमुः। शेमिथ । शशंथ । इत्यादीनि । शम्यात् । सिसता० । शमिता । पत्वं । शमिष्यति । दिवादावट् । अ. शमिष्यत् । लित्पुषादेर्डः । अशमत् । अशमतां । अशमन् । इत्यादीनि । केचिदाचार्या अस्य अशमीत् इति रूपमिच्छन्ति । साधनं तु पूर्ववत् । दम्धातोरपि रूपाणि शम्धातुवत् । शम् दम श्रम् तम् । भ्रम् । क्षम् । क्रम् । मद् एते शमादयो ज्ञातव्याः। तेषां रूपाणि पूर्वधातुवत् । न कश्चित् विशेपः । जिमिदा नेहने । आमी इतौ । तिबादयः । दिवादेर्यः । मिद् य तिप् इति जाते । सूत्रम् । मिदेर्ये गुणो वक्तव्यः । मेद्यति मेयेत् मेद्यतु अमेद्यत् । मिमेद मिमिदतुः मिमिदुः । मिथात्, मेदिता, मेदिष्य. ति, अमेदिष्यत्, अमिदत् । असु क्षेपणे । अस्यति, आस, असिता, असिष्यति । मिदे। मिर्धातोर्यप्रत्यये परे गुणो भवति । मेधति । चतुर्णा रूपाणि मु. गमानि । लिट्लकारे । द्वित्वं । पूर्वस्य । उपधाया लघोः । मिमेद । मिमिदतः । मिमिदुः । मिमेदिथ । इत्यादीनि रूपाणि भवन्ति । मिद्यात् । उपधाया लयोः । मेंदिता । अन्यानि सुगमानि । लुङ्लकारे लित्पुपादेः । दिवादावट् । अमिदत् । अमिदताम् । अमिदन् इत्यादीनि भवन्ति रूपाणि । असु क्षेपणे । तिवादयः । दिवादेर्यः । अस्यति । चतुणां रूपाणि सुगमानि । लिट्लकारे द्वित्वं । सस्वरादिद्धि२० । अत उप० । सवर्णे । आस । आसतुः । आसुः । आसिथ | इत्यादीनि । अस्यात् । सिसता०। असिता । अन्यानि सुगमानि । अन्येषामपि लुलकारे । लित्पुपादेर्डः। द्वावडागमौ । आस् दिप इति नाते । सूत्रम् ।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy