SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ ४१३ सारस्वते द्वितीयवृत्ती विषन् । प्रत्ययो वा भवति । इति केचिदाचार्या वदन्ति । तत्पक्षे हशषान्तात्सक । कित्त्वाहणाभावः । कत्वं । षत्वं । कषसं० । अविक्षत् । अविक्षतां । अविक्षन् । थास्मनेपदेऽपि । 'हशषान्तात्' अनेन समत्ययो भवति । अविक्षत । आनिसकोकारलोपः स्वरे । अनेनाकारस्यलोपः अविक्षातां । आतोन्तो। अविक्षत । इत्युभयपदिप्रक्रिया समाप्ता । इति लुग्विकरणा ह्वादयोधातवः कथिताः ॥समाप्तोऽयं द्वादिगणः । ॥अथ दिवादयः॥ दिवू क्रीडाविजिगीषाव्यवहारयुतिस्तुतिमोदमदस्वप्नकान्तिगतिषु। अथ दिवादिगणः कथ्यते । तत्रादौ परस्मैपदिप्रक्रिया कथ्यते । दिनु क्रीडाविजिगीषाव्यवहारयुतिस्तुतिमोदमदस्वप्नकान्तिगतिषु । दिधातुरेष्वर्थेषु वर्गते । तत्र क्रीडा खेलनम् । विजिगीषा जेतुमिच्छा । कान्तिरमिलापः । शेपाः प्रतीतार्थाः । प्रसिद्धिस्तु क्रीडार्थस्यैव युत्यर्थस्य च । उकार रदित्कार्थः । उदितः को वेट् इति इविकल्पार्थः । परतोऽन्यत् । अनेन परस्मैपदं भवत्यस्य । तिबादयः । प्रत्यया भवन्ति । तदा 'दिव् तिम्' इति जाते सूत्रम् । दिवादेर्यः । दिवादेर्गणायः प्रत्ययो भवति चतुपु परेषु । अपोऽपवादः । ग्वोर्विहसे । दीव्यति, दीव्यत्, दीव्यतु, अदीव्यत् । दिदेव दिदिवतुः दिदिवुः। दिदेविथ । दीव्यात, देविता, देविष्यति, अदेविष्यत्,अदेवीता षिवु तन्तुसन्तान। सीव्यति, सीव्येत, सीव्यतु, असीव्यत्, सीपेव, सीव्यात, सेविता, सेविष्यति, असेविष्यत्, असेवीत् । नृती गात्रविक्षेपे । ईकारेत् । नृत्यति, नृत्येत्, नृत्यतु, अनृत्यत् । ननर्त ननृततुः ननृतुः । नृत्यात, नर्तिता, नर्तिष्यति, अनतिष्यत् । दिवादेर्यः । दिवादेः (पं. ए.) यः (प्र. ए. ) द्विपदं मूत्रम् । दिवादेर्गगात् चतुर्दा विवादिपु दिप्पर्यन्तेषु प्रत्ययेषु परेषु यः प्रत्ययो भवति । सस्वरो यः प्रत्ययो भवति । अयमपोऽपवादः । अनेन यः प्रत्ययो भवति । स्वोविहसे । अनेन दी| भवति । दीव्यति । दीव्यतः । दीव्यन्ति । अदे । अनेनाकारस्य लोपः । दी. व्यसि । दीव्यथः । दीव्यथ । दीव्यामि । मोरा । दीव्यावः । दीव्यामः । ननु 'अप्
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy