________________
हससंधिप्रक्रिया ॥ ४॥
(३७, नश्चापदान्ते झसे। न्( पं. ए.) स्वर० । स्रो० । अग्रेच(म. ए.) अव्य। विसर्जनीयस्य सः । स्तो+थु । सस्य शः। स्वर० । अग्रे अपदान्ते (स.ए.)।स वर्णे | अइए सिद्धम् । चकारः पूर्वोक्तस्य म इत्यस्यानुकर्षणार्थः । तेन उ भयोरप्यपदान्ते पदमध्ये वर्तमानयोनकारमकारयोझसे परेऽनुस्वारो भवति । यश स् (प्र.ब.) जस । जसशसोः शि: इनुमयमः । मिदन्त्यात्स्वरो । नोपधायाः । इति दीर्घः । स्वर० । ततः पशान्+सि । पुम्+भ्याम्। उभयत्राप्यनुस्वारः। सूत्रम्।
यमा यपेऽस्य । अनुस्वारस्य यमा भवन्ति यपे परे । नन्वेकस्यानुस्वा.. रस्य पञ्च यमाः प्राप्ताः केन क्रमेण भवन्ति । अस्य यमस्य सवर्णाः । शान्तः।
यमा यपेऽस्य । यम (म.ब.) सवर्णे । स्रो० । पमाः ।अग्रे यप (स.ए.) अइए । माक् । आदबे लोपश् विसर्गलोपः । अग्रे इदम् (प. ए.) त्यदादेष्टेरः । स्यादौ दस्य मः। उस स्य । इदंस्थाने अ। एदोतोतः । वा (म. ए.) अव्य प० । अनुस्वारस्य यमा भवन्ति यपे परे । कथमित्यत आह अस्येति । अस्प अग्ने वर्तमानस्य यपस्य सवर्णा एव यमा भवन्ति वन्येऽक्षरे परे । तवर्गस्य पंचमा क्षरं भवति । अन्यत्र याशो यमोऽने भवति तादृश एव क्रियते , यथा कवर्ग परे कारः चर्गे परे मः। वर्गे परे गः। तवर्गे परे नः । पवर्गे परे मः । यवलेषु परषु यवला एव स्युः ।
वा पदान्ते ।। पदान्ते वर्तमानस्यानुस्वारस्य यमा वा भवन्ति यये परे । तं करोति तङ्करोति । तं तनोति तन्तनोति । तं जानाति तजानाति । उदा. त्वम् करोति । त्वम् तनोति । ककारे परे । तकारे परे अनुस्वारस्य नः । स्वर० । त्वङ्करोति त्वन्तनोति । सम्यन्ता इत्पत्रानुस्वा रस्य यः । यवल परे च सानुनासिकत्वात् सस्य उपरि अर्धचन्द्राकारो बिन्दुः । संय्यन्ता । एवं संवत्सरः । पुल्लिंगः । अत्र केचित् । स्वरे मः । अनुस्वारस्य मकारो भवति स्वरे परे इति सूत्रं पठन्ति । परं स्वरे परे पूर्वमनुस्वार एव न भवति किन्तु स्वरहीनएव स्यात् । जिनम् ईडे जिनमीडे । शम्+ अस्ति शमस्ति । अस्माकम् इह अस्मामिह ।