________________
४०४
सारस्वते द्वितीयवृत्ती थाकारस्य इकारः । जहितः । जहा अन्ति इति जाते । द्विरुक्तात् । द्वेस्तौ । अनन आकारस्य लोपो भवति । जहति । जहासि । जहीथः । जहिथः । नहीथ । जहिथ । जहामि । जहीवः । जहिवः । जहीमः । जहिमः । इत्यादीनि रूपाणि शेपानि । 'जहा यात्' इति जावे सूत्रम् ।
जहातेर्यादादावालोपो वाच्यः । जह्यात् । जहातु-जहीतात् जहितात् जहीताम् जहिताम् जहतु ।
जहातः । जहातेर्धातोर्यादादौ परे आकारस्य लोपो भवति । अनेन आकारस्य लोपः । जह्यात् । शेषाणि सुगमानि । आशी प्रेरणयोः । जहातु । जहीतात् । जहितात् । जहीतां । जहितां । रेस्तौ । द्विरुक्तात् । जहतु । जहा हि इदि स्थिते सूत्रम् ।
ईवी हौ । जहातेह्रौ परे ईकारः सिद्ध एव । पक्षे आकारेकारौ भवतः । जहीहि-जहिहि-जहाहि-अजहाद । अजहिताम् अजहीताम् अजहुः । जहाँ जहतुः नहुः । जहिथजहाथ । दादेरे । हेयात्, हाता, हास्यति, अहास्यत, अहासीत् । ऋगतौ । ऋप्रोरिः पूर्वस्य । ईर्वाही।। (. ए.)। (वा अव्ययम् ) हो (स. ए.)। जहाते(तोही परे इंकारः सिद्ध एव पक्षे आकारेकारौ भवतः । मुगमम् । अनेन सूत्रेण त्रीणि रूपाणि भवन्ति । जहीहि । जहिहि । जहाहि । अत्र भट्टिः 'जहिहि जहीहि जहाहि रामभार्याम् । इत्युदाजहार । अन्यानि सुगमानि । लुङ्लकारे । अजहात् अनहीताम् अजहिताम् । द्वेस्तौ । अनेनाकारस्य लोपो भवति । अजहुः । अन्यानि सुगमानि । परोक्षे । द्वित्वं । इस्वः । कुहोचः । झपानां । आतो णप् डौ । जहौ । आतोऽनपि। अनेन आकारस्य लोपो भवति । तदा जहतुः । जहः अवतो । जहिथ । जहाथ । अन्यानि सुगमानि । लिङ्लकारे ' हा यात्' । इति जाते दादेरे । अनेन आकारस्यैकारः । हेयात् । हेयास्तां । हेयासुः । हा ता । लुलकारे । आदन्तानां । अनेनेदसको भवतः । सेः । अनेनेट् । अहासीत् ! अहासिष्टाम् । अहासिपुः । अन्या. नि सुगमानि । ऋगतौ । तिवादयः । अप् कर्तरि । अनेन चतुर्यु अप् । ह्वाद्विश्च । ऋतिए इति जाते । अमोरिः पूर्वस्य । गुणः!
असवणे स्वरे पूर्वस्य इयादेशो भवति । इयति इयतः इग्रति । इयूयात् । इयर्तु-इगृतात् इयताम इयरतु । इयहि-इय