________________
३९२
सारस्वते द्वितीयवृत
अधि गाण इति जाते द्विश्च । ह्रस्वः । कुहोश्शुः । अतोऽनपि । अनेन आकारस्य लोपो भवति । अधिजगे । अधिजगाते । अधिजगिरे | इत्यादीनि । अध्येषीष्ट । अध्येता । अध्येष्यते । अडागमद्वयम् । अध्यैष्यत । अध्येष्येताम् । अध्यैष्यन्त । इत्यादीनि । सूत्रम् ।
इडो वा गी सौ लङि च तत्परस्य प्रत्ययस्य ङित्वं वाच्यम् । ङिवाणो न । अध्यगीष्यत अध्यगीष्येताम् अध्यगीष्यन्त । अध्यैष्यत । अध्यगीष्ट अध्यगीषाताम् अध्यगीषत । 1 अध्यैष्ट अध्येषाताम् अध्येषत । इत्यदादिष्वात्मनेपदिप्रक्रिया ॥
ईडो० ॥ इधातोर्वा गी इत्यादेशो भवति सौ परे च लङि विपये । तस्मास्परस्य प्रत्ययस्य ङित्वं वाच्यम् । अनेन गी इत्यादेगः । ङित्त्वाद्गुणाभावो भवति । अध्यगीष्यत । अध्यगीष्येताम् अध्यगीष्यन्त । लुङ्लकारे । ' इङोवा' अनेन गीदेशः । भूते सिः । क्विलात् ० । ष्टुत्वम् । अध्यगीष्ट । अध्यगीषातां । अध्यगीत । अन्यानि सुगमानि । गीरादेशाभावे | अडागमद्वयम् । गुणः । एऐऐ । इ पं स्वरे । अध्यैष्ट । अध्यैषातां । अध्यैषत | इत्यादीनि रूपाणि ज्ञातव्यानि । इत्यात्मनेपदिप्रक्रिया समाप्तिं प्राप्ता ॥
॥ अथोभयपदिप्रक्रिया प्रदर्श्यते ॥
द्विष् यप्रीतौ । अकार उभयपदार्थः । द्वेष्टि, द्विष्टे, द्विष्यात्, द्विषीत, द्वेष्ट, द्विष्टात्, द्विष्टाम्, अद्वेट्-अद्वेड् अद्विष्टाम् अद्विषुः, अद्विषन्, अद्विष्ट, दिद्वेष, दिद्विषे, द्विष्यात्, द्विक्षीष्ट, द्वेष्टा, द्वेक्ष्यति, द्वेक्ष्यते, अद्वेक्ष्यत्, अद्वेक्ष्यत । हश् षान्तात्सक । अद्विक्षत् अद्विक्षताम् ।
f
'
,
अथोभयपदिप्रक्रिया प्रदर्श्यते । द्विप् अमीतौ । अकार उभयपदार्थः । तिबादयस्तआदयश्च प्रत्यया भवन्ति । अप् कर्त्तरि । अनेन चतुर्षु लकारेषु अप्रमत्ययो भवति । अदादेर्लुक् । अनेन तस्य लुग् भवति । द्विपू विपू' इति जाते गुणः । ष्टुभिः टुः । द्वेष्टि । द्विष्टः । द्विषन्ति । द्विप् सिप् ' इति स्थितं गुणः । षढोः कः से । अनेन षस्य कः । क्विलात् । कपसंयोगे ० | द्वेक्षि । द्विष्ठः । द्विष्ठ | द्वेष्मि । द्विष्वः । द्विष्मः । द्विष्टे । द्विपाते । द्विपते । द्विप्यात् । द्विप्पारतां । द्वियासुः । द्विषीत । द्विपीयातां । द्विषीरन् । द्वेष्ट | द्विष्टात् । द्विष्टां । द्विषन्तु |