________________
३९१
अदादिमकिया। चत्र गुणो भवति । शेते । ए अय् । शयाते । गुणे कृते । 'शे अन्त ' इति जावे आतोन्तोदनतः। शे अते । इति जाते सूत्रम् ।
शीडोऽतो रुट् । शीङः परस्यादित्येतस्य रुडागमो भवति । शेरते, शयीत । शेताम् शयाताम् शेरताम् । अशेत अशयाताम् अशेरत । शिष्ये शिष्याते । शयिषीष्ट, शयिता, शयिष्यते, अशयिष्यत, अशयिष्ट । इङ् अध्ययने । अधिपूर्वः । अधीते अधीयाते अधीयते । अधीयीत । अधीताम् अधीयाताम् अघीयताम् । अध्यैत । इयादेशे कृते पश्चादडागमद्वयम् । अध्ययाताम् अध्यैयत ।।
शीडोऽतोस्ट् । शीङः (पं. ए. ) अतः (प. ए.) रुट (म. ए. ) शीर धातोः परस्य अन् इत्येतस्य रुडागमो भवति । टित्त्वादादौ । ठकारष्टित्कार्यार्थः । एकार उच्चारणार्थः । शेरते । शेषे । शयाथे । शेध्वे । इत्पादीनि रूपाणि ज्ञातव्यानि । तानि सुगमान्येव । शयीत । शयीयातां । शयीरन् । शेतां । शयाता । शीडोतोरुट् । अनेनरुदं । शेरतां । अशेत । अशयातां । रुडागमः । अशेरत | अन्यानि सुगमानि । लिट्लकारे द्विश्चा सस्वरादिः। हस्वः । नुधातोः। अनेन यकारः । शिश्ये । शिश्याते । शिश्यिरे । अन्यानि सुगमानि । गुणः । ए अय् । शपिपीष्ट । अत्र किलात्० । अनेन सकारस्य षकारो भवति । लुङ्लकारे । अशयिष्ट । अशयिषाताम् । अशयिषतं । इत्यादीनि रूपाणि ज्ञातव्यानि । इङ् अध्ययने । अयं धातुनित्यमधिपूर्वः । स्कार आत्मनेपदार्थः । सवर्णेदीर्घः सह । अधीते । अधि इ आते इति जाते 'नुधातोः ' अनेन इय् । सवर्णे । अधीपाते । अधीयते । अधीषे । किलात् । अनेन षकारः । अधीयाथे । अधीचे । अधीये । अधीवहे । अधीमहे । अधीयीत । अधीपीयातां । अधीयीरन् । लोट्लकारे । अधीतां । अधीयाताम् अधीयताम् । लुङ्लकारे । अघि इ तन् इति जाते । दिवादावह । स्वरादेः। अनेन द्वितीयोऽडागमः । अइए । एऐऐ । इयंस्वरे। अध्यैत । इयादेशे कृते पश्चादडागमद्वयम् । अध्ययातां । अध्ययत । अध्यैथाः । अन्यानि सुगमानि । पूर्वोत्तरेव सूत्रैः सिध्यन्ति । लिट्लकारे । अधि इ गप् इति स्थिते । सूत्रम् ।।
इडो णादौ गा वक्तव्यः । अधिजगे, अध्यैषीष्ट, अध्येता, अध्येष्यते, अध्यष्यत । इंडःो धातोर्णादौ परे गा इत्यादेशो वक्तव्यः । गुरुत्वात्सर्वादेशः ।