SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ३८६ सारस्वते द्वितीयवृत्ती धि' अनेन हिसहिवस्य शाधिनिपातो भवति । शाधि । अस्यान्यानि सन्ति । ललकारे 'शास् दिए ' इति जाते । सूत्रम् । दिपि सस्य तः सिपि वा । दिपि परे सस्य तकारो भवति सिपि तु वा भवति । अशात् अशिष्टाम् अशासुः । अशात-अशाः अशिष्टम् अशिष्ट । अशासम् अशिष्व अशिष्म । शशास शशासतुः शशासुः । शिष्यात्, शासिता, शासिष्यति, अशासिष्यत् । लित्पुपादेर्डः । शासेरिः । अशिषत् । चकास दीप्तौ । ऋइत् । चकास्ति चकास्तः चकासति । चकास्यात् । चकास्तु-चकास्तात् चकास्ताम चकासतु । झसाद्धिहः। दिपि सस्य तः सिपि वा । दिपि ( स. ए. ) सस्य (प. ए. ) तः (प्र. ए.) सिपि । (स. ए.) वा (अव्ययम् )। सकारान्तस्य धातोः सकारस्य दिपि परे तकारो भवति सिपि तु विकल्पेन भवति सस्य तः। अनेन सकारस्य तकारः। दिस्योईसात् । अनेन दिपो लोपः। दिवादावट् । अशात् । सिपि परे द्वेरपे भवतः । वाग्रहणात् । अशात् । अशाः । अन्यानि सन्ति । लिट्लकारे द्विश्च । पूर्वस्य । इस्सः । शशास | शशासतुः। शशासिथ । शासिता । शासिष्यति । लुकुलकारे लित्पुपादेई । अनेन प्रत्ययो भवति । शासेरिः। अनेनाकारस्येकारो भवति । घसादेः पः । अनेन सस्प षः। दिवादावट् । अशिषत् । अशिपताम् | अशिपुः । चकार दीप्ती । ऋकार इत् । प्रत्ययलुकादि सर्व पूर्ववत् । चकास्ति । प्रथमपुरुषस्य बहुवचने जनादः अनेन सूत्रेण अन्तः अत् अन उस् भवति । चकासति । चकास्यात् । चकास्तु । अस्य लकारस्प मध्यमपुरुषस्यैकवचने झसाद्धिः । अनेन हर्षिः। 'चकाम् धि' इति जाते सूत्रम् । धौ सलोपो वाच्यः । चकाधि । चकास्तात् चकास्तम् चकास्त । अचकात् अचकास्ताम् अचकासुः । अचकाद अचकाः। कासादिप्रत्ययादाम् । चकासांचकार, चकास्यान्, चकासिता, चकासिष्यति, अचकासिप्यत् । अचकासीद अचकासिष्टाम् अचकासिषुः । इत्यदादिषु परस्मैपदिप्रक्रिया ॥
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy