________________
२८५
अदादिप्रक्रिया। णप्वुण्सयुटो हित्वा अन्यस्माद्दरिद्रातेरनप्यालोपो लुकि वा । ददरिद्रौ ददरिद्रतुः ददरिदुः । ददरिद्रिय ददरिद्रथुः । पक्षे । दरिद्रांचकार, दरिद्रात, दरिद्रिता, दरिद्रिष्यति, अदरिद्रिष्यत, अदरिद्रीत्, अदरिद्रिष्टाम् अदरिद्रिषुः । पक्षे। अदरिद्रासीत् अदरिद्रासिष्टाम् अदरिद्रासिषुः । शास् अनुशिष्टौ । शास्ति।
णप वुण सयुटः । गए वुण् सयुटः हित्वा अन्यस्मात् दरिद्रार्धातोरनपि आकारस्य लोपो भवति लुङ्लकारे वा आकारस्य लोपो भवति । अनेनाकारस्य लोपः । ददरिद्रतुः । ददरिद्रिय । 'विद् दरिद्रा ' अनेन सूत्रेणास्य धातोर्वा आम्प्रत्ययो भवति । णप् । अनेनाकारस्य लोपः । अन्यत् साधनं तु पूर्ववत् ज्ञेयम् । दरिद्रांचकार । दरिद्रामास । दरिद्रांबभूव । णप् वुण अनेनाकारस्य लोपः । दरिद्रयात् । दरिद्र्यास्तां । दरिद्रयासुः । अयं धातुः । सेट् । अतः ‘सिसता' अनेनेड् भवति । ' ण वुण् । अनेनाकारस्य लोपः । दरिद्रिता । दरिद्रिष्यति । अदरिद्रिष्यत् । लुङ्लकारे । अदरिद्रीत् । अदरिद्रिष्टाम् । अदरिद्रिषुः । लडिवा' इत्युक्तत्त्वात् । वा भाकारलोपः । तत्पक्षे । 'भादन्तानां । अनेनेहसको भवतः । भदरिद्रासीत् । । भदरिद्रासिष्टाम् । अदरिद्रासिषुः । समाप्तोऽयं धातुः । शास् अनुशिष्टौ । पूर्ववत् तिबादयः । अदादेर्लुक् । भनेनापो लुग् भवति । शास्ति । शास् सस् इति स्थिते सूत्रम् ।
शासेरिः। शास्तेराकारस्येकारादेशो भवति किति डिति हसे के च परे । घसादेः षः । शिष्टः शासति । शास्ति शिष्टः शिष्ट । शास्मि शिष्वः शिष्मः । शिष्यात् । शास्तु शिष्टात् शिष्टाम् शासतु । जर्जाधिशाधि० । शाधि-शिष्टात शिष्टम् शिष्ट । शासानि शासाव शासाम ।
शासेरिः । शासेः (ष. ए.) इः । (म. ए.) शास्तेर्धातोराकारस्य इकारो भवति किति किति हसे हे च परे । अनेन आकारस्य इकारः। घसादेः षः । अनेन सूत्रेण सस्य षः । शिष्टः । शासति अस्मिन् रूपे 'जक्षादेः । अनेन अन्तोऽत् अन उस् । अन्यानि मूले सन्ति । लोट्लकारस्य मध्यमपुरुषकवचने ।' जोधिशा