________________
३८४
सारस्वते द्वितीयवृत्ती गरिव जजागरिम । विद् इति पक्षे आम् । जागरांचकार, जागरामास, जागरांबभूव, जागर्यात, जागरिता, जागरिष्यति, अजागरिष्यत् । हयन्तक्षणेति न वृद्धिः । ' अजागरीन् । दरिद्रा दुर्गतौ । दरिद्राति ।
जागर्तेः । जागर्तेर्धातोः किति प्रत्यये परे गुणो वक्तव्यः । अनेन गुणः । जजागरतुः । अन्यानि मूले सन्ति । 'विद् दरिद्रा ' अनेन सूत्रेणास्य वा आम् प्रत्ययो भवति । गुणः । जागरांचकार । अन्ये द्वे मूले स्तः । 'जागतेः ' अनेन गुणः । जागर्यात् । जागर्यास्तां । जागर्यासुः । गुणः । जागरिता । अन्यानि मूले सन्ति । लुङ्लकारे ' हयन्तक्षण ' अनेनास्य वृद्धरभावः । किंतु गुणः । अजागरीत अजागरिष्टाम् । अजारिषुः । दरिद्रा दुर्गतौ । पूर्ववत् तिबादयः । अदादेलृक् । द. रिद्राति । दरिद्रा तस् इति जाते सूत्रम् ।
दरिद्रातेरिदालोपश्च डिति । दरिद्रातराकारस्य लोपो भवति डिति स्वरे परे इकारश्च डिति हसे परे । दरिद्रितः दरिद्रति । दरिद्रासि दरिद्रिथः दरिद्रिय । दरिद्रामि दरिद्रिवः दरिद्रिमः । दरिद्रियात् । दरिद्रातु-दरिद्रितात् दरिद्रिताम दरिद्रतु । दरिद्राहि-दरिद्रितात् दरिद्रितम् दरिद्रित । दरिद्राणि दरिद्राव दरिद्राम । अदरिद्रात् अदरिद्रिताम् अदरिद्वः । अदरिद्राः अदरिद्रितम् अदरिद्रित । अदरिद्राम् अदरिद्रिव अदरिद्रिम। .
दरिद्रातरिदालोपश्च डिति । दरिद्रातेः (प. ए.) इत् (म. ए.) आ. लोपः (प्र. ए.)। च अव्ययम् । डिति (स. ए.) पंचपदं सूत्रम् । दरिद्रातर्घातो. राकारस्य डिति स्वरे परे लोग भवति । च किति हसे परे आकारस्य लोपो भव. ति। अनेनान आकारस्य इकारः । दरिद्रितः । अत्र 'दरिद्रातः । अनेन आकारस्य लोपः । जक्षादेः । दरिद्रति । अन्यानि मूले सन्ति । अनेनैव प्रकारेण साध्यानि । दरिद्रियात् । दरिद्रातु । अदरिद्रात् । लिलकारे द्विश्च । संस्वरादिः । आतो गप डौ । ददरिद्रौ । 'ददरिद्रा अतुस्' इति जाते सूत्रम् ।